Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 388
________________ ३५७ धर्मपरीक्षाकथा कर्णयोरश्विनीदेवौ चक्षुषोः शशिभास्करौ। गवां शृङ्गाग्ने भ्रुवोश्च सुरेन्द्रविष्णुभ्यां स्थितम् ॥२ मुखे ब्रह्मोरसि स्कन्दो ललाटे च महेश्वरः। ककुदे च जगत्सवं नक्षत्रग्रहतारकाः ॥३ ऋषयो रोमकूपेषु तपः कुर्वन्ति सर्वदा। अपाने सर्वतीर्थानि प्रश्रवणे च जाह्नवी ॥४ गोमये तु श्रिया देवी रामो लागूलमाश्रितः । चत्वारः सागराः पूर्णाः गवाङ्गेषु पयोधराः॥५ खुरेषु जम्बुको देवः खुरानेषु च पन्नगाः। । जठरे पृथिवी सर्वा सशलवनकानना ॥६ इति गोशरीरे सर्वमध्यारोप्य तस्या हननार्थं तेन सूत्रमकारि। तद्यथा-श्रोत्रयज्ञे सुरापानं गोसवे गव्यसंगमम् । गवां महे पशुं हन्यात् राजसूये च भूभुजम् ॥ इति । अग्निष्टोमाय पशुमालभेत । श्वेतगजमालभेत भूरिकामः । ब्राह्मणो ब्राह्मणमालभेत क्षत्रियो राजन्यं मरुद्वैश्यं तपसे शूद्रं तपसे तस्करं नरकाय वैरहणं पाप्मने क्लीबम् आकल्ययो रङ्काय पुंशूलम् । तरति लोकः। कंतरति पापं तरति ब्रह्महत्याम् । यो ऽश्वमेधेन युध्येत न कुलौतव्यौ विधिः । अनुक्रमेण कुर्यात् । इत्यादयश्चतुरशीतिमहायज्ञाः उविताः क्षुल्लकयज्ञाश्च । तथा इदमपि-अब्रह्मणे मृगशावे च प्रत्यक्षमृतदर्शने । तत्क्षणे खावयेत्पुण्यं त्यक्तं चेन्नरकं व्रजेत् ॥ इत्यादि। तत्र च सर्वे देवा आहूताः। गमने नृत्यन्महेश्वरः सतीसमन्वितो यावदागच्छति तावदेवैः सतीदेहस्थितान् नखक्षतादीन् दृष्ट्वा उपहसितम् । अहो प्रजापतेः पुत्रीसौख्यमिति । ब्रह्मा दृष्ट्वा लज्जितः। तथा सूत्रं कृतवान् । कीदृशम् ।। विद्यावृत्तविहीना ये शूद्रकर्मोपजीविनः । ते सन्ति दूषकाः श्राद्धे नाङ्गहीना गुणान्विताः॥ इति स शूद्रकर्मोपजीवीति तेन 'अवज्ञातः। सती च स्वावज्ञां दृष्ट्वा कोपेन जिह्वामुन्मूल्य ब्रह्मण उपरि निक्षिप्य होमकुण्डं प्रविश्य मृता। महेश्वरः कोपेन तदग्निकुण्डस्य विध्यापनं कृत्वा तद्वियोगेन पहिलो भूत्वा हा सती महासती केन नीतेति शोकं कृतवान् । तदनु तद्भस्मोद्धूलिताङ्गः तदस्थीनि मस्तकललाटकर्णकण्ठाविप्रदेशेषु बन्धयित्वा तत्कपालापितहस्तो महेश्वरो देवारण्यं प्रविष्टः । तत्र तं भ्रमन्तं दृष्ट्वा कामदेवो हसितुं लग्नः। कथम् । अयं स भुवनत्रयप्रथितसंयमः शंकरो बिति वपुषाधुना विरहकातरः कामिनीम् । अनेन खलु निजिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥ इति । ततस्तापसैदृष्ट्वा चिन्तितम्-को ऽयमिति । कश्चिदुक्तम्-कश्चिसिद्ध इति । कैश्चिदुक्तम्

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430