________________
३५७
धर्मपरीक्षाकथा कर्णयोरश्विनीदेवौ चक्षुषोः शशिभास्करौ। गवां शृङ्गाग्ने भ्रुवोश्च सुरेन्द्रविष्णुभ्यां स्थितम् ॥२ मुखे ब्रह्मोरसि स्कन्दो ललाटे च महेश्वरः। ककुदे च जगत्सवं नक्षत्रग्रहतारकाः ॥३ ऋषयो रोमकूपेषु तपः कुर्वन्ति सर्वदा। अपाने सर्वतीर्थानि प्रश्रवणे च जाह्नवी ॥४ गोमये तु श्रिया देवी रामो लागूलमाश्रितः । चत्वारः सागराः पूर्णाः गवाङ्गेषु पयोधराः॥५ खुरेषु जम्बुको देवः खुरानेषु च पन्नगाः। ।
जठरे पृथिवी सर्वा सशलवनकानना ॥६ इति गोशरीरे सर्वमध्यारोप्य तस्या हननार्थं तेन सूत्रमकारि। तद्यथा-श्रोत्रयज्ञे सुरापानं गोसवे गव्यसंगमम् ।
गवां महे पशुं हन्यात् राजसूये च भूभुजम् ॥ इति । अग्निष्टोमाय पशुमालभेत । श्वेतगजमालभेत भूरिकामः । ब्राह्मणो ब्राह्मणमालभेत क्षत्रियो राजन्यं मरुद्वैश्यं तपसे शूद्रं तपसे तस्करं नरकाय वैरहणं पाप्मने क्लीबम् आकल्ययो रङ्काय पुंशूलम् । तरति लोकः। कंतरति पापं तरति ब्रह्महत्याम् । यो ऽश्वमेधेन युध्येत न कुलौतव्यौ विधिः । अनुक्रमेण कुर्यात् । इत्यादयश्चतुरशीतिमहायज्ञाः उविताः क्षुल्लकयज्ञाश्च । तथा इदमपि-अब्रह्मणे मृगशावे च प्रत्यक्षमृतदर्शने ।
तत्क्षणे खावयेत्पुण्यं त्यक्तं चेन्नरकं व्रजेत् ॥ इत्यादि। तत्र च सर्वे देवा आहूताः। गमने नृत्यन्महेश्वरः सतीसमन्वितो यावदागच्छति तावदेवैः सतीदेहस्थितान् नखक्षतादीन् दृष्ट्वा उपहसितम् । अहो प्रजापतेः पुत्रीसौख्यमिति । ब्रह्मा दृष्ट्वा लज्जितः। तथा सूत्रं कृतवान् । कीदृशम् ।।
विद्यावृत्तविहीना ये शूद्रकर्मोपजीविनः ।
ते सन्ति दूषकाः श्राद्धे नाङ्गहीना गुणान्विताः॥ इति स शूद्रकर्मोपजीवीति तेन 'अवज्ञातः। सती च स्वावज्ञां दृष्ट्वा कोपेन जिह्वामुन्मूल्य ब्रह्मण उपरि निक्षिप्य होमकुण्डं प्रविश्य मृता। महेश्वरः कोपेन तदग्निकुण्डस्य विध्यापनं कृत्वा तद्वियोगेन पहिलो भूत्वा हा सती महासती केन नीतेति शोकं कृतवान् । तदनु तद्भस्मोद्धूलिताङ्गः तदस्थीनि मस्तकललाटकर्णकण्ठाविप्रदेशेषु बन्धयित्वा तत्कपालापितहस्तो महेश्वरो देवारण्यं प्रविष्टः । तत्र तं भ्रमन्तं दृष्ट्वा कामदेवो हसितुं लग्नः। कथम् ।
अयं स भुवनत्रयप्रथितसंयमः शंकरो बिति वपुषाधुना विरहकातरः कामिनीम् । अनेन खलु निजिता वयमिति प्रियायाः करं
करेण परिताडयन् जयति जातहासः स्मरः ॥ इति । ततस्तापसैदृष्ट्वा चिन्तितम्-को ऽयमिति । कश्चिदुक्तम्-कश्चिसिद्ध इति । कैश्चिदुक्तम्