Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 389
________________ ३५८ पार्श्वकीर्तिविरचिता अपूर्वदशनमस्माकं केन दृष्टमिदं भुवि । उन्मत्तो वा पिशाचो वा इति तेषां विचारणा॥ ___कैश्चिदुक्तम्-अयमीश्वरो मुक्ति गन्तुमुद्यतो ऽभूदिति। कैश्विदुक्तम्-यद्येवंविधो मुक्ति गच्छति नरकं को गच्छेदिति । तथा चोक्तम् रज्ज्वा बध्नाति वायुं मृगयति स जले मत्स्यकानां विमार्ग बन्ध्यस्त्रीषण्डकानामभिलषति सुतं वालुकाभ्यश्च तैलम् । वोभ्यां गन्तुं पयोधि झषकुलकलिताङ्गो विषाणे ऽपि दुग्धं सर्वारम्भप्रवृत्तौ नरपशुरिह यो मोक्षमिच्छेत् सुखानि ॥ कैश्चिदुक्तम्-शिवो ऽयं कृतकृत्य इति। कैश्चिदुक्तम्-यद्येवं शिवः तहि शैवसिद्धान्तस्य विरोधो भवति । सिद्धान्तः कः। पाताले चान्तरिक्षे दश दिशि भवने सर्वशैले समुद्रे काष्ठे लोष्टेष्टिकाभस्मसु जलपवने स्थावरे जङ्गमे वा। बोजे सर्वोषधीनामसुरसुरपुरे पत्रपुष्पे तृणाने सर्वव्यापी शिवो ऽयं त्रिभुवनभवने नास्ति चेदन्य एव ॥ इत्यादि । सर्वव्यापिनो गमनागमनसंभवश्वेत्यादिविकल्पानुत्पादयन् हिमवगिरिसमीपं गतः। तद्गिरेर्या पूर्व मृता सती गौरी नाम्नी पुत्री बभूव । पर्वतस्य कथं दुहितेति चेदाह। पूर्व सर्वेषां पर्वतानां पक्षाः सन्ति । पक्षिण इव खे चरन्तः एकदा अमरावती गताः। तत्र चेन्द्रवनं भक्षित्वा रोमन्थं वर्तयन्तः स्थिताः। इन्द्रेण दृष्ट्वा कोपेन वज्रायुधेनाहत्य पातिताः। हिमवगिरिमना नाम स्त्रीगिरेरुपरि पतितः। तदेवावसरे तस्याः जीवो मध्ये ऽभूत । तयोः संघटनेन पुत्री बभूवेति । स्फुलिङ्गामध्ये उत्पन्नेति तस्याः कामाग्नेः उपशान्ति स्तीति तेन दष्ट्वा च याचिता च प्राप्य विवाहिता। तया सह कैलासे तिष्ठन् एकस्मिन् दिने बहिर्गत्वागत्य द्वारे स्थित्वा प्रिये द्वारमुद्घाटयेत्युक्ते तयोक्तं वक्रोक्त्या। .. को ऽयं द्वाराग्रतो ऽस्थाद्वदति पशुपतिः किं वृषो नो ऽर्धनारी, कि पिण्डो नैव शूली किमपि च सरजो न प्रिये नीलकण्ठः। ब्रूहि त्वं किं मयूरो न हि विदितशिवः कि पुराणः शृगालः इत्येवं हैमवत्या चतुरनिगदितः शंकरः पातु युष्मान् ॥ इति कैलासे गौरीसमेतः शंकरस्तिष्ठति । प्रतिदिनं गङ्गायां स्नानाथं गच्छति। एकस्मिन दिने गङ्गाकुमारी सुरूपां दृष्ट्वा विशिष्टरूपेण तन्निकटं गत्वोक्तवान् का त्वमिति । तयोक्तम्गङ्गा। तेनोदितम्-को भर्ता। तयोक्तम्-यो ऽद्वितीयः स मे भर्ता । न तादृशः कोऽप्यस्ति । स बभाण-अहमेव तथा। इति भणित्वा परिणोता। तथा सह कामक्रीडां करोति । शिवाभीत्या तां तत्रैव निधाय कैलासं गतः। साप्यवलोकयन्ती तत्रागता। तया गौर्या सह सारैः क्रीडन्नीश्वरो दृष्टः । तां दृष्ट्वा गौर्योक्तम् का त्वं सुन्दरि जाह्नवी किमिह ते भर्ता हरो नन्वयम् अम्भस्त्वं किल वेत्सि मन्मथरसं जानात्ययं त्वत्पतिः । स्वामिन् सत्यमिदं न हि प्रियतमे सत्यं कुतः कामिनीमित्येवं हरजाह्नवोगिरिसुतासंजल्पनं पातु वः॥

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430