Book Title: Dharm Pariksha
Author(s): Amitgati Acharya,
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
३५६
पार्श्वकीतिविरचिता ज्ञात्वा सचिन्तो यज्ञस्तदुपदेशेन मृतकद्वयम् उभयशयनस्थाने निक्षिप्य गहं प्रज्वाल्य यज्ञां गृहीत्वा गतः। एकस्मिन् ग्रामे स्थितः । आगतो विप्रः शोकं विधाय सूत्रस्यार्थमवधायं, कि तत्सूत्रम्
यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि स च स्वर्गे महीयते ॥ इत्युभयास्थोनि तुम्बयोनिक्षिप्य गङ्गां चलितः । ताभ्यामावासितग्रामसमीपं गच्छन्नुभाभ्यां दृष्टः। तदनु पादयोः पतितौ। युवां काविति पृष्टे अहं यज्ञः इयं यज्ञेति निरूपिते विजानातीति । नेदृशः कोऽपि विद्यते, कथय । स आह ।
एकस्मिन् ग्रामे केनचिद्यजमानेन भौतिका आमन्त्रिताः। ते च माण्डव्यं नाम ऋषि दृष्टवा कोपात् सर्वे निर्गताः। यजमानेन किमित्युक्ते, अयमपुत्रको निःकृष्टः। अस्य पङ्क्तौ भोक्तुं न यातीति तैरुक्ते माण्डव्येनोक्तम्-अपुत्रस्य को दोषः । तैरुक्तम्
अपुत्रस्य गतिनास्ति स्वर्गो नैव च नैव च।।
तस्मात् पुत्रमुखं दृष्ट्वा पश्चाद्धर्म समाचरेत् ।। इति वचनान्महादोषः । पुनस्तेनोक्तम्-अहं वृद्धः। तपसा क्षोगविग्रहः । इदानों मह्यं कः कन्यां प्रयच्छतीति । तैरुक्तम्-त्वयेदं वेदवाक्यं न श्रुतम् ? किं तत्।
नष्टे मृते प्रवजिते क्लीबेच पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ अहिवीचीपिबत्तीया यदि पूर्व वरो मृतः। सा चेदक्षतयोनिश्च पुनः संस्कारमहति ॥ अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं वरम् । अप्रसूता च चत्वारि परतो ऽन्यं समाचरेत् ॥ इति । मात्रा पुच्या भगिन्यापि पुत्रार्थ प्रार्थ्यते नरः।
यो ऋतौ न भजेत्पुमान् स भवेद् ब्रह्महा पुनः ॥ तद्वचनेन तेन स्वभगिनी डंडिमा नाम रण्डा परिणीता। तयोः पुत्री छाया जाता। शैशवावसाने तीर्थस्नानाथ गच्छद्भ्यां पुत्री व ध्रियते इति पर्यालोच्य मात्रोक्तम्-महादेवनिकटम् । तेनोक्तम्-नोचितम् । किमिति । स तवृत्तान्तमाह।
पूर्वमिहलोके वनितारूपमपि नास्ति। सर्वे देवा मदनाग्नित[त ] ता बभूवुः । ब्रह्मैकदा देवारण्यं वनं प्रविष्टः। तत्र च विशिष्टफलाहारेणातिकामोद्रेके सति एकस्मिन् देशे शुक्रपातो बभूव । तत्तु परीवाहरूपेण वोढुं लग्नम् । तत्र त्रयस्त्रिशत्कोटिसतीप्रभृतयो देव्य उत्पन्नाः । सतो शिवाय अन्या अन्येभ्यो देवेभ्यो दत्ताः। प्रजापतिरेकदा मांसादौ लोलपो भूत्वा चिन्तयति स्म। यदि मयैतद्भक्षणं विधीयते त स्ये । तद् यथा सर्वे ऽपि भक्षयन्ति तथोपायं करोमीति यज्ञं प्रारब्धवान् सूत्राणि विधाय । कथम् ।।
गोसवित्रं प्रवक्ष्यामि सर्वपापविनाशकम् । दन्ताग्रेषु मरुदेवो जिह्वाग्ने च सरस्वती ॥१

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430