Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 34
________________ महोपाध्याय श्री मेघ विजयविरचितं गुर्जरत्रा इति नीवृतां वरश्चकास्ति तस्मिंस्त्रिदिवं सचित्रयन् । सदोडुनेत्रैरदसीय भासनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ ११ ॥ अनन्तपट्टे खटिकाक्षरैर्ग्रहच्छलादमुष्येव विलिख्य संस्थितिम् । संस्कर्तुमभ्यस्यति विश्वकृत् सदा पदं महेन्द्रालयचारुचक्रिणः ॥ १२ ॥ सरस्यतिस्मेरपयोजकाननान्निशास्थितोऽलिप्रकरः समुत्पतन् । seissent किं रविनारदागतेर्जवेन पीठादुदतिष्ठदच्युतः ॥ १३ ॥ यदीश्वरस्यारिनिसूदनात्मसु श्रुतेषु गीतेषु बुधैधः कृतौ । सुरैः समं वा दनुजैर्विसर्जितौ सुतेन धातुश्चरणौ भुवस्तले ' ॥ १४ ॥ समुद्रमारान्मणिढौकना कृतेऽभ्युपेतमेषोऽर्चयति द्रुमैः सुमैः । गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नाऽपुण्यवतां मनीषिणः ॥ १५ ॥ वदन्ति केदारगणाः खरेखणैरितीव सद्रेखित विश्ववास्तवं । 'दिवः समादाय मैदादमुं पुमांश्चिरंतनस्तावदद्भिन्यवीविशत् ॥ १६ ॥ विशामसौ श्रीतनयाँभिनन्दनः समुन्नतज्योतिरपास्ततापनः । महौषधिप्रत्तरुचिः समुद्गतेरच्चुरचन्द्रमसोऽभिरामताम् ॥ १७ ॥ राज्यभूमौ युवतीजना इवोद्गृहीतपत्रासंग इक्षुयष्टयः । प्रीणन्ति सौवाङ्गनिपीडने रसैर्महानुभावा हि नितान्तमर्थिनः ॥ १८ ॥ इहास्ति शङ्केश्वरतीर्थमद्भुतं सनायकं पार्श्वजिनाभिभूभुजा । भुजंगमानां यमुपप्लवे भजन् नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १९ ॥ श्रियं स शङ्केश्वरपार्श्वतीर्थकृद् दधेऽर्थितार्थप्रथनाद् मरुत्तरोः । अचूचुरच्चैत्यमचर्यचारुतां सुमेरुशृङ्गस्य तदा तदासनम् " ॥ २० ॥ [ प्रथमः सर्गः ] १ 'स' स इति प्रसिद्धः । २ 'अनन्तपट्टे' अनन्तम् नभः । ३ 'सुतेन धातुश्चरणी' धातुः सुतेन ब्रह्मदत्तेन नारदेन वादेवैः सह कृतः नारदेन हेतुभूतेन सुरैः असुरैः समं कृतः तथा असुरैः सुरैः समं कृतः तौ द्वावपि । ४ 'खरेखणै: ' हलोल्लेखनैः । 1 सचित्रयन्- त्रिदिवं सचित्रं साधर्यं कुर्वन् इति भावः - सह चित्रेण सचित्रः - सचित्रं करोति सचित्रयति, अस्य वर्तमानकृदन्ते प्रथमैकवचने सचित्रयन् । 'अवेक्षमाणम्' इत्यादि मा० प्र० स० लो० १० चतुर्थपादः । 2 'खटिका' गूजराती भाषायां 'खडी' इति प्रसिद्धा या बालैर्लेखशालायां स्वलिपिपरिकर्मणि उपयुज्यते । 'पदं महेन्द्रालयचारु चक्रिणः' इति मा० प्र० स० श्लो० ११ चतुर्थपादः । अत्र तु 'महेन्द्र' स्थाने 'महेन्द्र' इति तथा 'महेन्द्रालयचारुचक्रिणः' इति एकं पदम् इति विभेदः । 3 ' जवेन' इत्यादि मा० प्र० स० श्लो० १२ चतुर्थपादः । ३ ५ 'मदादमुं' मदाद अहंकारात् । ६ अमुं देशं विधिर्मदात् दिवः अभिनिवेशितवान् । F 'श्रीतनयाभिनन्दनः' कन्दर्पः, पक्षे श्रीः लक्ष्मीः, तनयाः पुत्राः तैर्वर्धनः । ८ 'उद्गृहीतपत्रासयः' उद्गृहीताः पत्राणि एव असयः खङ्गाः यैस्ते । रविनारदागतेः रविवत् तेजखी पूज्यो वा यो नारदः तस्य आगतेः - आगमनात् इति भावः । 4 'सुतेन' इत्यादि मा० प्र० स० श्लो० १३ चतुर्थपादः । 5 अत्र श्लोके पादद्वयं समस्यारूपेण गृहीतं कबिना । तच मा० प्र० स० श्लो० १४ तृतीय - चतुर्थपादौ । माघे 'नापुण्यकृताम् ' इति पाठ मेदः । 6 मा० प्र० स० छो० १५ चतुर्थपादः । 7 मा० प्र० स० श्लो० १६ चतुर्थपादः । 8 मा० प्र० स० लो० १७ चतुर्थपादः । 9 मा० प्र० स० श्लो० १८ चतुर्थपादः । 10 मा० प्र० स० को ० १९ चतुर्थपादः । 5 10 15 20

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112