Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 38
________________ . 5 [प्रथमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं स शास्ति शास्ता जगतीं हरेः श्रियं हरन् विहारैलिराजबन्धनात् । भक्तेभरात् कारयते बलेन यः प्रसादमिच्छ(च्छा)सदृशं पिनाकिनः ॥५०॥ जवानिगृह्णन्नरिमण्डलं बलादुपाददे मण्डलमग्रणीः सताम् । ददौ पुनस्तस्य सुराङ्गनाजनस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥५१॥ नभोनिविष्टानुहुरूपिणः सुरान् भयात् प्रगेनाशयदाद्यनिःस्वनैः। प्रतापमाधाय रविच्छलाद् व्यधाद् य इत्थमस्वास्थ्यमहर्निशं दिवः ॥५२॥ वदान्यभावादधरीकृतामरद्रुमस्य राज्ञः पटहध्वनेत्रसन् ।। खपादयोः कन्दरमन्दिरोदरे बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५३॥ निविह्ववानोऽस्य भियाऽभ्रकुम्भिनं विधुच्छलादुच्छिरसं नभोऽम्बुधौ । दिवं विहायैकदिगंशमाश्रयन्निनाय विभ्यद् दिवसानि कौशिकः ॥५४॥ जगन्नयैः सन्नयनं नयनयं दरिद्रताद्रावकदानमुद्रया। ररञ्ज लोकानपि हातुमाहितं न चक्रमस्याऽऽक्रमताधिकं धरम् ॥५५॥ उवास तत्र व्यवहारिणां वरः स्थिराभिधो माधवदेहसम्भवः। वपुस्त्विषा श्रीहरणान्मनोभुवः प्रकम्पयामास न मानसं न सः ॥५६॥ गिरः श्रियः क्षान्तिवदान्यतादयो गुणाश्च मुक्त्वा त्रिजगत् समं समे। तदीयमस्थानतयेव दुष्कलेर्जवेन कण्ठं सभया:प्रपेदिरे ॥७॥ पदे पदेऽहनिलयैः स्वकारितैर्यशःसगभैरथ सङ्घयात्रया। तां स गां चक्रिरहीशितुर्यथोदुवाह दुःखेन भृशानतं शिरः ॥ ५८ ॥ पतिव्रता प्राप्तवपुःखरूपतः शचीव रूपा इति रूपरूपिणी । 15 १-नाशयदाद्य-' इत्यस्य स्थाने 'नाशय वाद्य' इत्यपि पाठः। वाद्यनिःखनैः-प्राभातिकवाद्यशब्दैः । २'प्रतापमाधाय' यः राजा इत्थं रविच्छलात् प्रतापम् आधाय इत्थमिति हे प्रताप! वं सुरान् नाशय इत्यर्थे 'वाद्यनिःखनैः' इति पाठः। अन्यस्यापि भूपस्य प्रतापाद् वैरिणां प्रामेषु रात्री निवासः, प्रातः प्रणाशः स्याद् इति भावः ।। ३ 'बलस्य शत्रुः' शत्रुः पादयोर्बलस्य शीघ्रता प्रशशंस । ४'-लादुच्छिरसं' उच्छिरसम् उन्मस्तकम् । ५ 'हातुमाहितं न चक्र-' पर्वतं त्यक्तुम्-आहितं चक्रं न आक्रमत-न चचाल। ___ अस्य राज्ञः आहितं चक्रम् । अहितानामिदम् आहितं चक्रम्रिपुगणः अधिकं महान्तम्, पर्वतं धरम् , हातुम्-त्यक्तुम्, न आक्रमत-न उद्यमं चकार । ६ 'माधवदेहसंभवः'-माधवपुत्रतया कान्त्या च स्मरं जिगाय । 'जवेन कण्ठं सभयाः' कण्ठम्-उपकण्ठम् , “सत्यभामा भामा" इति न्यायात् । “कण्ठो ध्वनौ सन्निधाने ग्रीवायां मदनद्रुमे" इति अनेकार्थः [है. अने. सं. कां०२ श्लो० १.१] । कण्ठम्-समीपम् । ८'तथा स गां चक्रि-' गाम्-भुवम् । ९ 'रूपरूपिणी'-प्रशस्तरूपवती। 1 मा० प्र० स० श्लो.४९ चतुर्थपादः । अत्र तु 'मिच्छ- | सदृशम्' इति लेखकप्रमादः । 2 मा० प्र० स० श्लो. ५. चतुर्थपादः। मा० प्र० स० श्लो०५१ चतुर्थपादः । माघे 'महर्दिवं दिवः' इति पाठः। 4 मा.प्र. स.श्लो० ५२ चतुर्थपादः । 5 मा० प्र० स० श्लो०५३ चतुर्थपादः। 6 मा० प्र० स० श्लो० ५४ चतुर्थपादः । माघे 'धिकन्धरम्' इति अखण्डम् । 7 मा० प्र० स० श्लो० ५५ चतुर्थपादः । 8 मा० प्र० स० श्लो०५६ चतुर्थपादः । 9 मा०प्र० स० लो० ५७ चतुर्थपादः ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112