Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 52
________________ [ द्वितीयः सर्गः ] महोपाध्याय श्री मेघविजयविरचितं अनुत्सूत्रपदन्यासा सद्वृत्तिः सनिबन्धना । राजनीतिः सूरिराजः शब्दविद्येव दिद्युते ॥ १२० ॥ अजातदोषैर्दोषज्ञैः कनकाद्विजयादिकैः । विनेयैरसुरत् सूरिस्तारकैरिव चन्द्रमाः ॥ १२१ ॥ ख्याताः कनकविजया लावण्यविजयाः परे । वाचकाः श्रीप्रभोर्हृष्टाः शासनैः सामवायिकाः ॥ १२२ ॥ अन्यदाऽऽजूहवत् सूरीन् श्रीजहांगीरसाहयः । उपेयिवांसि कर्तारस्तद्यशांस्यधिकान्यथ ॥ १२३ ॥ सोत्सवं सूरिरप्येतत् पुरीमजातशात्रवीम् । श्रियं श्रयन् श्राद्धजनैः प्राप्नोति स्म परिष्कृताम् ॥ १२४ ॥ तथाऽवादि नृपपृष्टैर्धर्मार्थं सूरिभिर्वचः । राजन्यकान्युपायज्ञैर्यथा मुमुदिरेतराम् ॥ १२५ ॥ अथ तं भूभृदाssचख्यौ हृष्टस्तत्तपसा विभो ! | विश्व चक्रिरे लोकैरेकार्थानि चरैस्तव' ॥ १२६ ॥ महातपा इति क्षोणी भर्ताऽस्याख्यां तदाभ्यधात् । ततः कुपक्षाः क्षीणाशाः स्वयं मत्सरिणः परे ॥ १२७ ॥ य इहात्मविदो विपक्षमध्ये सहसं वृद्धियुजोऽपि भूभुजः स्युः । नलिनैर्मलिनैरिवाकराद् वै पृथगस्मादचिरेण भाविता तैः ॥ १२८ ॥ मुनिपतौ निपतौल्यभृति क्षितौ जनिभृतो निभृतोऽग्रभवाम्बुधौ । घन इवोदयमाश्रयति स्वयं शलभतां लभतामसुहृद्गुणः " ॥ १२९ ॥ 20 १ - सुरत्" "सुर दीप्ति ऐश्वर्ययोः " धातुः । २ ' य इहात्म-' इत्यादि । 'इह' लोके, 'आत्मविदः' साधोः, 'भूभुजः' राशः श्रीसूरेः, 'ये' नराः, 'विपक्षमध्ये' संभूय इति शेषः, 'पृथग्' ' स्युः' 'तैः' 'अचिरेण' 'मलिनैः' भाविता । 'कस्मात् कैरिव ? ' ' आकरात्' पद्माकरात् पृथग्भूतैः 'नलिनैः' यथा मलि नैर्भूयते । किम्भूताः भूभुजः ? 'सहसम्' सोल्लासं यथा स्यात् 1 मा० द्वि० स० श्लो० ११२ श्लोकस्य समयं पूर्वार्धम्, अत्रापि पूर्वार्धम् । माघे 'सन्निबन्धना' इति मेदः । अस्यैव श्लोकस्य माघे 'शब्दविद्येव नो भाति' इति तृतीयं चरणम् । 2 मा• द्वि० स० छो० ११३ प्रथमचरणम् अत्रापि प्रथमचरणतया न्यस्तम् । माघे 'अज्ञातदोषै-' इति मेदः । 3 मा० द्वि० स० छो० ११३ चतुर्थचरणम् अत्र चतुर्थंचरणम् । 14 मा... द्वि० स० छो० ११४ प्रथमचरणम् अत्र तृतीय चरणतया । २१ तथा । यद्वा किम्भूताः ये ? नराः 'सहसम्' सोल्लासं वृद्धिभाजोऽपि ये 'अस्माद्' गुरोरेव वृद्धिं प्राप्ताः पृथग्भूतास्ते नराः सरसः पद्मा इव शीघ्रं मलिना विपक्षा भविष्यन्ति इति भावः । ३ - 'निप' - निपो घटः । ४ ' शलभताम्' शरभताम् । 5 मा० द्वि० स० छो० ११४ द्वितीयचरणम् अत्र द्वितीयचरणतया । माघे 'पुरीमाजातशात्रवीम्' इति पाठभेदः । 6 मा० द्वि० स० छो० ११४ तृतीयचरणम् अत्र तृतीय चरणतया । 7 मा० द्वि० स० श्लो० ११४ चतुर्थंचरणम् अत्र चतुर्थ चरणतया । 8 मा० द्वि० स० श्लो० ११५ चतुर्थंचरणम् । 9 मा० द्वि० स० हो० ११६ तृतीयचरणं विहाय अत्र त्रीण्यपि चरणानि । माघे 'सह संवृद्धियुजोऽपि' इति पदविभागः । 10 मा० वि० स० छो ११७ चतुर्थपादः । 5 10 15

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112