Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 67
________________ 5 10 15 20 ३६ देवानन्दमहाकाव्यम् । [ तृतीयः सर्गः ] आलोकयामास हरिः पतन्तीर्भक्त्या तदंहधोर्जनता जगत्याः ॥ १४८ ॥ व्युत्क्रम्य मासांश्चतुरः पुरेऽस्य गच्छन्तमार्यं तमनुव्रजन्तीः । न रक्षितुं ताः क्षितिपः शशाक नदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥ १४९ ॥ विक्रीय दिश्यानि धनान्युरूणि संलब्धलाभा वणिजो द्विधाऽपि । पुरीव चक्रुर्विपिनेऽस्य सेवां क भोगलाभो न हि भाग्यभाजः ॥ १५० ॥ स्थित्वा स्वदेशेऽब्दयुगं शमीन्दुद्वैप्यानसावुत्तमलाभ भाजः । चिकीर्षुराहातुमितान् सुराष्ट्रां चचाल नन्तुं विमलाचलेन्द्रम्— ॥ १५१ ॥ शत्रुञ्जये श्रीपरमादिदेवं नत्वाऽब्धितीरं प्रभुराप्तवांश्च । तरीषु तत्रत्यमफल्गु भाण्डं निक्षिप्य सङ्घोऽप्यभिजग्मिवांश्च ॥ १५२ ॥ अज्झाहरे श्रीजिनमाश्वसेनिं तथोन्नते हीरगुरोः क्रमाब्जे । प्रणम्य तत्रैत्य स बोधिबीजं सांयात्रिकानावर्पतो ददर्श ॥ १५३ ॥ उत्पित्सवोऽन्तर्नदभर्तुरुच्चैद्वीपाख्यपुर्याः प्रमदान्निवासाः । गुरोः प्रणामाय सनागरीका रेजुर्विमाना इव केतुपक्षैः ॥ १५४ ॥ लङ्कापुरी किं विजिताऽनयैव गरीयसा निःश्वसितानिलेन । चलोर्मिमालाप्रतिबिम्बदम्भात् सवेपथुर्नीरधिमध्युवास ॥ १५५ ॥ मुक्ताफलवचिकेरान् वितत्य तत्रेश्वरं वर्धयतः पयोधेः । पयांसि भक्त्या गरुडध्वजस्य तदुत्सवज्ञीप्सुतयोद्विचेलुः ॥ १५६ ॥ पुरः प्रवेशे शमिनामिनस्य प्रसूनवृष्ट्यादिमहं नृदेवाः । चक्रुस्तदैक्ष्यो च्छलदूर्मिदम्भाद् ध्वजानिवोचिक्षिपिरे फणीन्द्राः ॥ १५७ ॥ तमागतं वीक्ष्य युगान्तबन्धु-भुजं भुजङ्गप्रभुपूजनीयम् । संस्थाप्य मासांश्चतुरः क्षमीशं ननन्द सङ्घोऽनघ भक्तिकृत्यैः " ॥ १५८ ॥ ततः क्रमात् सञ्चलितं यतीन्द्रमुत्सङ्गशय्याशंयमम्बुराशिः । उर्मीकरैर्देवपत्तनस्थं भुजिष्यवद् वीजयति स्म वातैः " ॥ १५९ ॥ १ 'हरिः' जगत्या भुवः हरिः इन्द्रः - जगत्सिहनामा । २ ' ताः ' जनताः । ३ 'खदेशे -' स्वेषाम् आत्मीयानां स्वानां ज्ञातीनां वा देशो गूर्जरत्रा तत्र वर्षद्वयम् । ४ - आवपतो -' सम्यक्त्वबीजम् आवपतः प्ररोहयतः । 1 मा० तृ० स० श्लो० ७५ तृतीयः पादः तृतीयतया । 2 मा० तृ० स० श्लो० ७५ चतुर्थः पादः चतुर्थतया । 3 मा० तृ० स० श्लो० ७६ प्रथमः पादः प्रथमतया । 4 मा० तृ० स० श्लो० ७६ द्वितीयः पादः द्वितीयतया । 5 मा० तृ० स० श्लो० ७६ तृतीयः पादः तृतीयतया । 6 मा० तृ० स० श्लो० ७६ चतुर्थः पादः चतुर्थतया । माघे ' - नावपतोऽभ्यनन्दत्' इति । ५ ' - वीचिकरान्' वीचय एव कराः पाणयः तान् । ६ 'युगान्त' युगस्य शकटाप्रभागस्य अन्तैर्धर्मेंद घेतादिगुणैर्बन्धुभूतौ भुजौ यस्य सः तम् । ७ 'मुत्सङ्ग -' मुदां हर्षाणां संगो यत्र तादृक् शय्या - उपाश्रयः तत्र स्थितम् । 7 मा० तृ० स० श्लो० ७७ प्रथमः पादः प्रथमतया । 8 मा० तृ० स० श्लो० ७७ द्वितीयः पादः द्वितीयतया । 9 मा० तृ० स० श्लो० ७७ तृतीयः पादः तृतीयतया । 10 मा० तृ० स० श्लो० ७७ चतुर्थः पादः चतुर्थतया । 11 मा० तृ० स० श्लो० ७८ प्रथमः पादः प्रथमतया । 12 मा० तृ० स० लो० ७८ द्वितीयः पादः द्वितीयतया ।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112