Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 97
________________ 5 10 15 ६६ देवानन्दमहाकाव्यम् । [ षष्ठः सर्गः ] हियमिता यमितisपि पयोमुचा निवसितेनं सितेन सुनिर्ववौ' ॥ ६९ ॥ नवसुधा वसुधाभरणं विधोः कलेमजालमजातरसक्षयम् । सिततमाः ततमानभृता प्रियं वनितयाऽनितया न विषेहिरे' ॥ ७० ॥ [ इति शरद् ] कमलिनीमलिनीकरणे संहे कुसुमितासु मितासु वनीष्वपि । सुकरणैकरणैः स्मरसं श्रियः स्मरमयं रमयन्ति विलासिनः ॥ ७१ ॥ सरलतारलताः परिकम्पयन् मदनवेदनवेगवतीर्व्यधात् । हिमहता महता तरसा प्रियैर्वियुवतीर्युवतीः शिशिरोऽनिलः ॥ ७२ ॥ बलवतो लवतोऽपि महः क्षयं नयति संयति संगमनं जने । विरतोऽविरतो जडसन्निधौ न हि महाहिमहानिकरोऽभवत् ॥ ७३ ॥ [ इति हेमन्तः ] नरमणे ! रमणे तपसि स्त्रिया सह स ना हसनाय समीरितः । अरुण भोऽरु भोग्यरजश्चयो द्युतिरयं तिरयन्नुदभूद् दिशः ॥ ७४ ॥ ममिते दमिते खगुणैर्मयि त्यज रसाज्जरसा न बिभेषि किम् ? | वचनयाचनया निशि भेजिरे घनमतो नमतोऽनुमतान् प्रियाः' ॥ ७५ ॥ निजगदुः कुसुमेन वशीकृताः स्मरन्नृपस्य जयं दलतीलिनः । रतिकराः स्वरुतैरनुकात्मैनां सपदि कुन्दलतादलेतालिनः ॥ ७६ ॥ प्रवदतः खसुमेन दधौ भृशं वरयशांसि तपोदलताऽलिनः । १ 'यमिता - ' बद्धा मेघेन वृष्ट्या च बद्धाऽपि । २ 'निवसितेन' अभ्रैर्निवसितेन इव सुनिर्ववौ- सुखं प्राप । 'इव' अव्ययाभावे लुप्तोपमा । ३ 'नवसुधा' विधोश्चन्द्रस्य नवा या सुधा तया भुवो भरणम् । 'नवसुधा' इति भिन्नं पदम् । बहुवचनान्तम् । ४ 'कलम - ' कलमक्षेत्रम् । ५ ‘सिततमाः' विधोर्नवसुधाः सिततमाः शुभ्राः पुनः किम् ? वसुधाभरणम् । ६ 'ततमान' विस्तीर्ण मानवत्या । ७ प्रियम् अनितया अप्राप्तया वनितया एतानि वस्तूनि न विषेहिरे । ८ ‘सहे' सहः मार्गशीर्षमासः । ९ 'सुकरण - ' सु-सुष्ठु करणानि कामासनानि तद्रूपाद्वैतयुद्धैः । १० 'विलासिनः ' रसिकान् रमयन्ति स्म । रसं स्मरमयम् । द्वैकर्म्यम् । ११' - वियुवतीः प्रियैर्वियुक्ताः युवतीः । १२ 'संयति' युद्धे । 1 मा० ष० स० छो० ५८ चतुर्थः चतुर्थतया । माघे 'निवसितेव' इति भेदः । 2 मा० ष० स० श्लो० ६० चतुर्थः चतुर्थतया । 8 मा० ष० स० टो० ६१ चतुर्थः चतुर्थतया । 4 मा० ष० स० श्लो० ६२ चतुर्थः चतुर्थतया । माघे 'शिशिरानिलः ' । १३ ' - अविरतो- ' अविरतः । विशेषेण रतो वा । १४ ' तपसि ' माघे । “तपाः शिशिर - माघयोः” इति अनेकार्थः [ है ० अ० सं० कां० २ ० ५६७] १५ ' अरुणभो-' रक्तकान्तिः । १६ ‘अरुणभोग्य- ' “अरुणोऽर्केऽनूरु- पिङ्गयोः । संध्यारागे बुधे कुष्टे निश्शब्दाऽव्यक्तरागयोः” इति अनेकार्थः [ है ० अने० सं० कां० ३ ० १८१] १७ ' द्युतिरयम्' करवेगम् चकाराध्याहारात् दिशः विरयन् । १८ 'मदमिते' इते प्राप्ते मयि मदं त्यज । १९ 'अनुमतान्' प्रियान् प्रियाः नार्यः । २० 'दलता' विकस्वरेण । अलिनः भृङ्गाः । २१ ' - अनुकात्मनाम्' कामिनाम् । २२ 'कुन्दलता - ' कुन्दलताया दले तालिनः करास्फोटकृतः । २३ ' तपोद - ' तपोदलतालिनः तपाः शिशिरः स एव दलं हस्त्यादिसाधनम् तद्भावः तेन अलति शोभते ईदृकू राजा, तस्य वरयशांसि प्रवदतः । “अली भूषण-पूर्णता-निषेधेषु धातुर्ध्वादिः” 5 मा० प० स० श्लो० ६३ चतुर्थः चतुर्थतया । अकाराप्रश्वेषे विरतः । 6 मा० ष० स० श्लो० ६४ चतुर्थः चतुर्थतया । 7 मा० ष० स० छो० ६५ चतुर्थः चतुर्थतया । 8 मा० ष० स० ० ६६ चतुर्थः चतुर्थतया ।

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112