Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 106
________________ [ सप्तमः सर्गः ] महोपाध्याय श्रीमेघ विजयविरचितं सुकृतमिह जनश्चकार तत् किं किमिव न शक्तिहरं स साध्वसानाम् ॥ ५४ ॥ नगरमिदमतीव धर्मयोग्यं धननिचितं कनकं त्वमत्र हीरेः । इति कुरु गुरुराज ! वार्षिके द्वे भवतु यतः सदृशोचिराय योगः ॥ ५५ ॥ इति गृहिवचसा द्वितीयवर्षा अपि स निनाय गुरुस्तथैव तंत्र । मृदुवचन सुधार सैर्जनानां चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५६ ॥ अथ गुरुचलने क्रमात् पुरोऽस्याः सकलजनेऽनुगते प्रसूं सुतोऽवक् । कृतयुगमगमत् बतोपतापी शठकलिरेव महांस्त्वयाद् यदत्ते !' ॥ ५७ ॥ अथ गुरुरगमत् क्रमान्नगर्याः सकलजनानुगतौ पतिं प्रियोचे । यदि चलयसि मामम न तन्मे शठ ! कलिरेव महांस्त्वयाऽद्य दत्तः ॥ ५८ ॥ [ पाठान्तरम् ] वदति जयपदानि भलोके प्रणदति वाद्यगणे प्रभासमायात् । गुरुरभिधृततोरणं वधूनां सममसिताम्बुरुहेण चक्षुषा च ॥ ५९ ॥ कृतसुरपुर-जीर्णदुर्गवर्षः स गुरुरगात् पुरवन्दिरेऽस्य लक्ष्या । सृजनपरदृशोः क्रमात् सुधाभिर्द्वयमपि रोषरजोभिरापुपूरे ॥ ६० ॥ सुकृतभरवहैर्महैः स तत्र शरदमतीत्य ययावुपान्धिकूलम् । तदधिगममुद्रा पुरे रसाली मृदुकुसुमेऽनयदाऽहताऽप्यमूर्च्छत् ॥ ६१ ॥ अवसरमिममाप्य शुद्धबुद्धिर्वितरण भोजनपौषधांश्च कुर्वन् । इह तपसि पुरो गुरोर्निदधे सपदि हिरण्मयमण्डनं स पत्न्या ॥ ६२॥ १ 'साध्वसानाम्' भयानां शक्तिहरं सुकृतं किं किं न चकार स जनः । २ 'हीर' नगरं कनकम् त्वं हि निश्चितम् ईरकः- धर्मस्य प्रेरकः पक्षे लं हीरगुरुः । [ हि+ईरः =हीरः ] ३ ‘वार्षिके' द्वे पर्युषणे पर्वणी । ४ 'तत्र' द्वीपबन्दिरे । ५ 'यदत्त' [ यद्+अत्त!] हे अत्त ! हे मातः ! अत्ता मातृबाची तत्संबोधनम् । मातरं पुत्रोऽवक्- हे मातः । यद् यस्मात् कृतयुगम् अयात् गतम्, महान् वृद्धः शठकलिः प्राप्तः " शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च" इति अनेकार्थः [ है० अने० सं० कां० २ श्र० १०७] ६ ' - अमा' सह । यदि माम् अमा सह न चलयसि तर्हि मे माम् हे शठ ! त्वया अद्य कलिरेव दत्तः कलहः क्लेशो वा । 1 मा० स० स० को ० ५२ चतुर्थः चतुर्थतया । माघे 'ससा - ध्वसानाम्' । 2 मा० स० स० छो० ५३ चतुर्थः चतुर्थतया । 3 मा० स० स० ० ५४ चतुर्थः चतुर्थतया । 4 मा० स० स० श्लो० ५५ चतुर्थः चतुर्थतया । माघे 'शठ ! कलिरेष महांस्त्वयाद्य दत्तः' इति । ७५ ७ 'वधूनाम्' वधूनां चक्षुषा 'च' इवार्थे असिताम्बुरुहेण समं कृततोरणं प्रभासनगरम् । 'चक्षुषा' इति जातौ एकवचनम् । ८ यद्वा ममो ममत्वम् तेन सह यत् सिताम्बुजं तेन । अममनिर्मम - इत्यादिवत् प्रयोगः । ९ ' - सुरपुर- ' सुरपुरं देवकपत्तनम् जीर्णदुर्गम् तत्र च कृतचतुर्मासः । १० 'लक्ष्म्या' शोभया । ११ ‘-कूलम्’ कूलं वेलाकूलम् "सत्यभामा भामा” इति न्यायात् पदैकदेशे पदग्रहः । १२ ' - सुमे नय-' यद्वा नयदैः न्यायकारकैः अहता अवारिता घावन- वल्गन - नर्तनादिभिः इति शेषः । १३ 'निदध्रे' इह नगरे पढया करणभूतया तपसि स कश्चिद् शुद्धबुद्धिः गुरोः पुरो हिरण्मयमण्डनं गूंहलीति प्रसिद्धं दधी । 5 मा० स० स० श्लो० ५५ चतुर्थः चतुर्थतया । 6 मा० स० स० छो० ५६ चतुर्थः चतुर्थतया । 7 मा० स० स० श्लो० ५७ चतुर्थः चतुर्थतया । 8 मा० स० स० श्लो० ५८ चतुर्थः चतुर्थतया । 9 मा० स० स० श्लो० ५९ चतुर्थः चतुर्थतया । माघे 'सपढ्याः' इति । 5 10 15

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112