Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 61
________________ 5 10 15 20 ३० देवानन्दमहाकाव्यम् । [ तृतीयः सर्गः ] यां रेवतीजानिरियेष हातुं न रोहिणेयो न च रोहिणीशः ॥ ८० ॥ बाणाहवव्याहतशम्भुशक्तेर्व्यक्तेऽपि दाशार्हपतेः प्रियात्वे । तदोपभुङ्के स्म पयोधिपुत्रीं तां दीनदानैर्वणिजां वरेण्यः ॥ ८१ ॥ मासादितः प्राप्य महीमहेन्दोरासत्तिमासाद्य जनार्दनस्य । दयोदयायैष यथेष्टदानैः श्रेष्ठी समुद्धोषयति स्म ढक्काम् ॥ ८२ ॥ परस्परं तत्क्षणवीक्षणार्थ- मिलद्वधूनां वदनेन्दुभासा । शरीरिणा जैत्रशरेण यत्र स्मरेण रेमे रमणेषु कामम् ॥ ८३ ॥ लीलावतीनां कलगीतनादं श्रुत्वान्तराऽऽखादविमुद्रिताक्षः । नटेश्वरोऽभूत् किमतस्तदानीं निःशङ्कमूषे मकरध्वजेन ॥ ८४ ॥ निषेव्यमाणेन शिवैर्मरुद्भिर्जनाश्रये तेन घने जनेन । नाबोधि बाधाssaपसंप्रवृत्ता क कामचारे यदि वाऽऽतपः स्यात् ॥ ८५ ॥ संसत् सुधर्मा सममादितेयैरध्यास्यमाना हरिणा चिराय । इहावतीर्णा किमिति व्यमृक्षत् साक्षाज्जनस्तत्र गुरावुपेते ॥ ८६ ॥ मुक्तादिदानेषु समुत्किरन्तस्तदा वदान्या नगरे विरेजुः । उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावुन्मुक्तमुक्ता इव वीचिमार्गाः ॥ ८७ ॥ कस्ता पुरं स्तोतुमलं महेऽस्मिन् सविस्मयं स्मेरतरे स्मयेन । अध्यासितामाईत जन्मवृत्तावाह्वास्त मेरार्वमरावतीं या ॥ ८८ ॥ स्निग्धाञ्जनश्यामरुचिः सुवृत्तो दन्दह्यमानाऽगुरुवर्त्तिधूमः । वदान्यभावाद् वणिजोsधरैस्य पयोधरस्यागममाशशंस ̈ ॥ ८९ ॥ श्रीवर्द्धमानप्रभुशासनश्रीवध्वा इवाऽध्वंसितवर्णकान्तेः । विदिद्युते वक्त्रसहस्रपत्रमिवोच्चकैर्मण्डपमण्डलेशः " ॥ ९० ॥ श्रीवाचको यष्टरसेन्दु संवत् [१६८२ ] राधाग्रषष्ठयां कनकाभिधानः । विशेषको व विशिशेष यस्याः सौभाग्यमुचैर्गणभृत् पदव्याः" ॥ ९१ ॥ १ 'रेवती' रेवती जाया यस्य " जायाया जानिः " [ ७३ ॥ १६४ ] २ ' - आसत्ति' आ इति अव्ययम् ईषदर्थे । आ ईषत् आसतिं नृपस्य प्राप्य अजनार्दनस्य मारिनिषेधस्य ढक्कां पटह वादयति स्म । किंभूतः श्रेष्ठी ? सादी अश्वारूढः - राजप्रसादल 1 मा० तृ० स० श्लो० ६० उत्तरार्धम् उत्तरार्धतया । माघे 'रौहिणेयो' इति । 2 मा० तृ० स० श्लो० ६१ प्रथमः पादः प्रथमतया । 3 मा० तृ० स० श्लो० ६१ द्वितीयः पादः द्वितीयतया । माघे ' - मासाद्य जनार्दनस्य' इति पदविभागः । 4 मा० तृ० स० श्लो० ६१ तृतीयः पादः तृतीयतया । 5 मा० तृ० स० छो० ६१ चतुर्थः पादः चतुर्थतया । ब्धाऽश्ववान् । यद्वा आसादि सादिनम् अवधीकृत्य अश्वारोहोऽपि जीवरक्षक इत्यर्थः । ३ 'शिवै: ' सुखकारिभिः । ४ 'मेरो' आगताम् । ५ ' - अधरस्य' दातृत्वेन हीनवादीकृतस्य । ६ 'वा' इति अव्ययम् - उपमायाम् । 6 मा० तृ० स० लो० ६२ प्रथमः पादः प्रथमतया । माघे 'निषेव्यमाणेन' इति । 7 मा० तृ० स० श्लो० 8 मा० तृ० स० छो० 9 मा० तृ० स० श्लो० 10 मा० तृ० स० श्लो० 11 मा० स० तृ० श्लो० 12 मा० स० तृ० श्लो० ६२ द्वितीयः पादः द्वितीयतया । ६२ तृतीयः पादः तृतीयतया । ६२ चतुर्थः पादः चतुर्थतया । ६३ प्रथमः पादः प्रथमतया । ६३ द्वितीयः पादः द्वितीयतया । ६३ तृतीयः पादः तृतीयतया

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112