________________
[ द्वितीयः सर्गः ]
महोपाध्याय श्री मेघविजयविरचितं
अनुत्सूत्रपदन्यासा सद्वृत्तिः सनिबन्धना । राजनीतिः सूरिराजः शब्दविद्येव दिद्युते ॥ १२० ॥ अजातदोषैर्दोषज्ञैः कनकाद्विजयादिकैः । विनेयैरसुरत् सूरिस्तारकैरिव चन्द्रमाः ॥ १२१ ॥ ख्याताः कनकविजया लावण्यविजयाः परे । वाचकाः श्रीप्रभोर्हृष्टाः शासनैः सामवायिकाः ॥ १२२ ॥ अन्यदाऽऽजूहवत् सूरीन् श्रीजहांगीरसाहयः । उपेयिवांसि कर्तारस्तद्यशांस्यधिकान्यथ ॥ १२३ ॥ सोत्सवं सूरिरप्येतत् पुरीमजातशात्रवीम् ।
श्रियं श्रयन् श्राद्धजनैः प्राप्नोति स्म परिष्कृताम् ॥ १२४ ॥ तथाऽवादि नृपपृष्टैर्धर्मार्थं सूरिभिर्वचः । राजन्यकान्युपायज्ञैर्यथा मुमुदिरेतराम् ॥ १२५ ॥ अथ तं भूभृदाssचख्यौ हृष्टस्तत्तपसा विभो ! | विश्व चक्रिरे लोकैरेकार्थानि चरैस्तव' ॥ १२६ ॥ महातपा इति क्षोणी भर्ताऽस्याख्यां तदाभ्यधात् । ततः कुपक्षाः क्षीणाशाः स्वयं मत्सरिणः परे ॥ १२७ ॥ य इहात्मविदो विपक्षमध्ये सहसं वृद्धियुजोऽपि भूभुजः स्युः । नलिनैर्मलिनैरिवाकराद् वै पृथगस्मादचिरेण भाविता तैः ॥ १२८ ॥ मुनिपतौ निपतौल्यभृति क्षितौ जनिभृतो निभृतोऽग्रभवाम्बुधौ । घन इवोदयमाश्रयति स्वयं शलभतां लभतामसुहृद्गुणः " ॥ १२९ ॥ 20
१ - सुरत्" "सुर दीप्ति ऐश्वर्ययोः " धातुः ।
२ ' य इहात्म-' इत्यादि । 'इह' लोके, 'आत्मविदः' साधोः, 'भूभुजः' राशः श्रीसूरेः, 'ये' नराः, 'विपक्षमध्ये' संभूय इति शेषः, 'पृथग्' ' स्युः' 'तैः' 'अचिरेण' 'मलिनैः' भाविता । 'कस्मात् कैरिव ? ' ' आकरात्' पद्माकरात् पृथग्भूतैः 'नलिनैः' यथा मलि नैर्भूयते । किम्भूताः भूभुजः ? 'सहसम्' सोल्लासं यथा स्यात्
1 मा० द्वि० स० श्लो० ११२ श्लोकस्य समयं पूर्वार्धम्, अत्रापि पूर्वार्धम् । माघे 'सन्निबन्धना' इति मेदः । अस्यैव श्लोकस्य माघे 'शब्दविद्येव नो भाति' इति तृतीयं चरणम् ।
2 मा• द्वि० स० छो० ११३ प्रथमचरणम् अत्रापि प्रथमचरणतया न्यस्तम् । माघे 'अज्ञातदोषै-' इति मेदः ।
3 मा० द्वि० स० छो० ११३ चतुर्थचरणम् अत्र चतुर्थंचरणम् ।
14 मा... द्वि० स० छो० ११४ प्रथमचरणम् अत्र तृतीय
चरणतया ।
२१
तथा । यद्वा किम्भूताः ये ? नराः 'सहसम्' सोल्लासं वृद्धिभाजोऽपि ये 'अस्माद्' गुरोरेव वृद्धिं प्राप्ताः पृथग्भूतास्ते नराः सरसः पद्मा इव शीघ्रं मलिना विपक्षा भविष्यन्ति इति भावः ।
३ - 'निप' - निपो घटः ।
४ ' शलभताम्' शरभताम् ।
5 मा० द्वि० स० छो० ११४ द्वितीयचरणम् अत्र द्वितीयचरणतया । माघे 'पुरीमाजातशात्रवीम्' इति पाठभेदः ।
6 मा० द्वि० स० छो० ११४ तृतीयचरणम् अत्र तृतीय
चरणतया ।
7 मा० द्वि० स० श्लो० ११४ चतुर्थंचरणम् अत्र चतुर्थ
चरणतया ।
8 मा० द्वि० स० श्लो० ११५ चतुर्थंचरणम् ।
9 मा० द्वि० स० हो० ११६ तृतीयचरणं विहाय अत्र त्रीण्यपि चरणानि । माघे 'सह संवृद्धियुजोऽपि' इति पदविभागः ।
10 मा० वि० स० छो ११७ चतुर्थपादः ।
5
10
15