________________
- देवानन्दमहाकाव्यम् ।
[द्वितीयः सर्गः] हर्षाचिकीर्षरुद्धर्षमहं तेनान्तिषनिजः। पट्टे स्थाप्योऽतिवृष्ट्यादेः प्रथमेन त्वयारिणा'॥१०९॥ खपट्टेऽस्थापयत् सूरिर्विद्यादिविजयं ततः। सत्पुत्रे सति नो भारं धर्मराजो विवक्षते ॥ ११०॥ विजयाद् देव इत्याख्यां सूरयोऽस्य वितेनिरे । खयं श्रयन्तः कीर्तीर्वा सिन्धवो नगनिम्नगाः ॥१११ ॥ सूरिणा पददानेन श्रीमल्लेनोत्सवैर्नवैः। मोदिताः सुहृदः सद्योऽसुहृदो विमनीकृताः ॥११२ ।। मुनीषुरसभू १६५७ वर्षे शुद्धे राधकृतो ४ इनि। प्राभूत् स सूरिभव्यानामिष्टिं कर्तुमलंतराम् ॥११३ ॥ आदिदेश प्रभुश्चावी देशनां समयां तथा। यथा जेगीयते भव्यैः क्षोभिताम्भोधिवर्णना ॥११४ ॥ मार्गणेभ्यो यथाभीष्टं श्रेष्ठिना स्पर्शनं वदे । वाचनादैरधश्चक्रे क्षोभिताम्भोधिवर्णना' ॥११५ ॥ सत्साधर्मिकवात्सल्यं श्रीमल्लेन विनिर्ममे । मित्रज्ञातिपरीवार-पितृष्वने प्रतिश्रुतम् ॥ ११६ ॥ न्यस्ता कुङ्कुमहस्ताश्च सर्वत्र कुसुमस्रजः। प्रासरत् स्त्रीजनस्याशीर्वागेका वाग्मिनः सतः ॥ ११७ ॥ तीर्थंकस्थति तीर्थ भेजानस्तं प्रभु जनः। एनसां कोऽभवद् भव्यो नान्तायाऽऽलम्भवानपि ॥११८॥ बभौ सरिस्तप:शरमहसा सहसा महान् ।
कुर्वन्नन्तःस्थितस्याविस्तलं विद्विषदम्भसः" ॥ ११९ ॥ १"विव-'वोढुं वाञ्छति।
.. 'तीर्थे- "तीर्थ शाने गुरौ यज्ञे पुण्यक्षेत्रा-ऽवतारयोः" इति २-हनि' चतुर्थ्याम् ।
अनेकार्थः [है. अने. सं.कां. २ श्लो. २११] ३ 'स्पर्शनं दानम् ।
-'स्थपतिम्' "अपत्येऽधिपती तक्षिण स्थपतिर्निचये शये"
इति विश्वः [विश्वलो. श्लो. १८५ त-तृतीय-है. अने. ४ '-ध्वने' पितृष्वसुः उपलक्षणेन सर्वे संबन्धिनः ।
सं. कां. ३ श्लो. ३..] ५ 'प्रतिश्रुतम् प्रतिज्ञातमिव ।
4-5ऽलम्भ-' आरम्भवान् ।
1 मा.द्वि. स. श्लो. १०२ चतुर्थः पादः।
6 मा.द्वि. स.श्लो. १०७ चतुर्थः पादः। माघे 'भुमि2 मा.वि.स. श्लो. १.३ चतुर्थः पादः।
ताम्भोधिवर्णना' इति पाठमेदः। 3 मा. द्वि० स० श्लो. १०४ चतुर्थः पादः ।
7 मा.वि.स.लो. १.७ चतुर्वः पादः।
8 मा.द्वि. स.ओ.१.८ चतुर्वः पादः । 4 मा. वि. स.लो. १०५ चतुर्थः पादः ।
9 मा. वि. स. श्लो.१.९ चतुर्थः पादः। 5मा. द्वि.स.लो. १.६ चतुर्थः पादः । माघे 'इथं | 10 मा० द्वि. स. श्लो.".चतुः पादः। मम्' इति भेदः ।
| 11 मा. वि. स. ओ.११ चतुर्वः पादः ।