________________
[द्वितीयः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं प्रादुरासन्निर्विकारं शब्दा इव विहायसः॥ ९७ ॥ अथाकब्बरभूभर्ता गुरुमाजूहवन्मुदा। यः सर्वसूरिमालासु नायको नायकायतें ॥९८॥ तदृष्टभूभृदाचष्टे हृष्टो धर्मानुयोजनम् । सूरिर्वचांस्युत्ततार स्थाष्णूनि बलवन्ति च ॥ ९९ ॥ श्रेयो दयामयं श्रेयो वायेषु प्रतिष्ठितम् । जन्तीर्घात-घृणे स्यातां निदानं क्षयसम्पदः ॥१०॥ गङ्गा मान्या प्रतिष्ठादावित्याद्युपदिदेश सः। जयनेकपदे भट्टान् य उदात्तः स्वरानिव ॥१०१॥ जितकाशी ततः सूरिर्विजहार धरातले । वृन्दं प्रबोधयस्तेजः-समूहः स महीभुजाम् ॥ १०२॥ दत्वा विद्वत्पदं विद्या-विजयायोहिवान् गुरुः । मत्पद्देऽयं श्रियाऽपुष्पं-बाणः सन्धानमेष्यति ॥१०३ ॥ ध्यानाध्यक्षः सुरोऽप्यूचे पट्टोदयनगेऽर्कवत् । अयं सुधीस्तपोवार-बाणः सन्धानमेष्यति ॥ १०४ ॥ अथास्ति स्तम्भतीर्थाख्या नगरी खैर्महोभरैः। खर्देशांस्तन्वती व्यस्त-प्रेदोषमनुगामिनः ॥ १०५॥ तत्रायात् सोत्सवं सूरि-भूरितेजाः स शूरवत् । श्यामयन् दुर्मतीस्तप्तान साग्नीनेधानिवानिलः ॥ १०६ ॥ तत्र सोमाग्रजः श्रेष्ठी श्रीमल्लो भर्भरीभजन् । पुण्यश्रियेव पाथोधिर्महानद्या नगापगाः" ॥ १०७॥ समं सगोत्रैः सोऽन्येयुः सूरिं व्यज्ञापयत्तराम् ।
ज्ञान-क्रियाभ्यां सर्वेऽनु-गन्तारस्त्वामतः परे" ॥ १०८ ॥ १'नायको' हारमध्यमणिः ।
५ 'व्यस्त-' व्यस्तप्रदोषं यथा स्यात् तथा यत्र पुरे संध्या२ 'स्थाष्णूनि' साधकानुमानसहितानि । विपक्षे बाधकतर्क- | समयो नास्ति ।
६ 'भर्भरी'-भर्भरीशब्दः श्रीपर्यायः औणादिकः । [है. ३ 'जित-'जिताहवः । ४.४ 'बाणः' श्रिया कान्त्या पुष्पबाणः स्मरः । पुष्पं रागः, बाणः
धातुपा० ग०९ धा० २७ पृ. २४१] द्वेषः, तद्रहितः-अपुष्पबाणः।
'-स्त्वा-खाम् अनुगन्तारः।
साधूनि।
1 मा० द्वि० स० श्लो. ९१ चतुर्थः पादः। 2 मा. द्वि० स० श्लो०९२ चतुर्थः पादः ।
3 मा. द्वि. स. श्लो. ९३ चतुर्थः पादः । माघे 'स्थानि' इति मेदः । व्याकरणरीत्या तु 'स्थाष्णूनि' इति कथं साधु स्यात् ?
4 मा. वि. स. श्लो. ९४ चतुर्थः पादः। 5 मा. द्वि० स० श्लो० ९५ चतुर्थः पादः।
6 मा० द्वि० स० श्लो..९६ चतुर्थः पादः। माघे 'महीभृ. ताम्' इति मेदः।.......
7 मा० द्वि० स० श्लो०९७ चतुर्थः पादः । 8 मा० द्वि० स० श्लो.९७ चतुर्थः पादः।
9 मा. द्वि. स. श्लो. ९८ चतुर्थः पादः । माघे-'षमनुयायिनः' इति मेदः। 10 मा० द्वि० स० श्लो. ९९ चतुर्थः पादः । 11 मा. द्वि० स० श्लो. १०० चतुर्थः पादः । माघे 'नगापगा' इति एकवचनम् । " . . 12 मा.द्वि. स.लो.१.१चतर्थः पादः' ...