________________
5
10
15
20
१८
देवानन्दमहाकाव्यम् ।
त्यजतोऽलङ्कृतः सर्वाः स्थिरस्नोर्गुरोर्डशा । शुरेनांसि कामायोः फणीन्द्रा इव शत्रवः ॥ ८७ ॥ प्राची-रव्योरिवानूषः प्रसू-सून्वोर्विभासतोः । दीक्षावेषात् ततः स्मोच्चैः फलत्युत्साहपादपः ॥ ८८ ॥ बुद्धिशस्त्रप्रकृत्यङ्गो घनसंवृतिकशुकः । चारेक्षणः स चारित्राद् रेजे राजेव नीरजाः ॥ ८९ ॥ तपः शुक्ल दशम्यां तं प्राव्राजयत सोत्सवम् । सूरीन्द्रः प्रभया जेता रसभोगविदः कवेः ॥ ९० ॥ विद्याविजय इत्याख्यां सूरिश्वत्रे यथार्थदृक् ।
स्थाने न मोहः क्वापि स्याद् रसभागविदः कवेः ॥ ९९ ॥ अशिक्षत स भिक्षूणामयनं विनयाश्रयम् । अप्रतिो विपन्मूलं प्राप्ते काले गदो यथा ॥ ९२ ॥ शुश्रूषया गुरोरेष कृत्स्नशास्त्ररसं पपौ । दशाकर्ष इव स्नेहं दशया ह्यन्तरस्थया' ॥ ९३ ॥ नैष्ठिको दैष्टिकोत्कृष्टः स विद्याविजयो मुनिः । अविरुद्धं क्रियाज्ञान- द्वयं विद्वानपैक्षत ॥ ९४ ॥ भूयोऽन्तिषन्मणीभर्तुरनेनैव कलाभृता । उल्लासोधेरिवर्षीणां तथा नेतुर्महीभृतः ॥ ९५ ॥ जुष्टेश्वरेक्षणार्चिष्मद् गङ्गातीरे तपस्यतः । राज्ञः कलाभृतस्ताराः प्रयान्ति परिवारताम् ॥ ९६ ॥ इतीव तप्यतस्तीव्रं तपस्तस्य स्वयं गुणाः ।
१' - नूषः ' प्रभातकालाद् अनु इत्यनेन रक्तभात्यागः श्वेतपरिधानं सूचितम् ।
२ ‘-रेक्षणः' चारे ईर्यया गतौ ईक्षणे यस्य । राजपक्षे चाराः गूढपुरुषाः ।
३ ' - भागविदः' प्रभया धिया, कवेः कवीनां जेता- ज्ञानवान् । 'कवेः' इति जात्या एकवचनम् । रसाः शृङ्गारादयः तेषां सांकर्येऽपि भागान् वेत्ति तस्य । कवेः शुक्रस्य जेता । रसो जलम् तस्य भागान् लभते जलचारित्वात् शुक्रस्य ।
1 मा० द्वि० स० श्लो० ८८ चतुर्थपादः । 2 मा० द्वि० स० श्लो० ८९ चतुर्थपादः ।
3 मा० द्वि० स० श्लो० ८२ प्रथमद्वितीयौ पादौ, अत्रापि तो एव । माघे 'बुद्धिशस्त्रः' इति भिन्नम् ।
4 मा० द्वि० स० श्लो० ८३ चतुर्थः पादः । माघे 'रसभावविदः' इति पाठमेदः ।
5 मा० द्वि० स० को ० ८३ चतुर्थः पादः ।
[ द्वितीयः सर्गः ]
४ ' - प्रश्रितः' अविनीतः । विनीतः प्रश्रितः ।
५ 'नैष्ठि-' नैष्ठिकब्रह्मचारी । “नैष्ठिकसुन्दर ! त्वया " - इति कुमारकाव्ये [ पश्चमसर्गे छो० ६२]
६ 'दैष्टि - दैष्टिकः शास्त्रवेत्ता देवपरश्च ।
७
• '- हीभृतः' ऋषीणां महीभृतः भूपस्य । तथा तेन प्रकारेण, अब्धेः सागरस्य ऋषीणां 'नेतु:' प्रापयितुर्बुद्धिम् इति शेषः । ८-'र्चिष्मद्' क्रियाविशेषणम् - सेवित हरनेत्रदहनं यथा स्यात्
तथा तपस्यतः ।
6 मा० द्वि० स० छो० ८४ चतुर्थः पादः ।
7 मा० द्वि० स० श्लो० ८५ चतुर्थः पादः । माघे 'दशयाभ्यन्तरस्थया' इति पाठः ।
8 मा० द्वि० स० लो० ८६ चतुर्थः पादः । माघे 'विद्वान - पेक्षते' इति ।
9 मा० द्वि० स० छो० ८७ चतुर्थः पादः ।
10 मा० द्वि० स० श्लो० ९० चतुर्थः पादः ।