SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ [द्वितीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं स्मरध्वजैस्ताज्यमानैर्गेयस्येवं विचित्रता ॥७॥ तचित्रकृत् पुरन्ध्रीभिः पुरं गृह्याभिरन्वितम् । तथा परिष्कृतं येन प्रबन्धो दुरुदाहरः ॥७६ ॥ नदीयसीमपि घनामनन्यगुणभूषिताम् । नार्यः प्रसारयन्ति स्म चित्रां वाचं पटीमिव ॥७७॥ उचैर्दुकूलकेतूनां पतिस्तत्पुरसद्मनाम् । जज्ञे जयाशिषां तत्र वक्तुर्गुणनिकेव सा॥७८॥ सर्वत्र तहिारे स्मेरपुष्पस्रजां बजैः। गौ हासोल्लसद्भासं जिगीषोरात्मसंपदः ॥७९॥ दीक्षामण्डपमासाद्य सिक्ताः पुष्पस्रजां रसैः। सङ्कीर्णत्वेऽपि मनुजा जानते जातु न श्रमम् ॥ ८॥ चक्रे चन्द्रोदयैरन्तनभोमौक्तिकतारकम् ।। तथार्केण यथा द्वारे स्थीयते बहिरश्मवत् ॥ ८१॥ हल्लीसकैः पणस्त्रीणां विस्मिताः पुत्रिकामिषाः। आरभन्तेऽल्पमेवाऽज्ञाः नृत्यं स्वगोगनाजनाः ॥८२॥ कृतजेमनवारा नो कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियः स्वीयाः कल्पद्रुमा इव ॥ ८३ ॥ अधः प्रियालसालस्य हाजानामनि पाटके। यावत् सवरा हृष्टास्तिष्ठन्ति च निराकुलाः ॥ ८४ ॥ नावधीदु धीवरः कोऽपि देशावधि तिमि तदा। दानस्तुष्टो न चाभ्यणे शयालुमुंगयुमंगम्" ॥ ८५॥ अत्रान्तरेऽथ तत्रागात् सूरीन्दुर्यस्य सूरिषु । उदयश्री रवः शश्वदादित्येष्विव कल्प्यते" ॥८६॥ १-स्यैव' इव-अव्ययं पादपूरणे, यद्वा गीतस्य विचित्रतावत् | वापक्षे पटी उपमा, पटीपक्षे वाग् उपमा । सर्वा विचित्रता भोजन-वसनादिषु नानात्वम् आरेभे। ३'चन्द्रोद- चन्द्रोदयैः वितानः उच्चखात् नभः अन्तर २'पटी'-पटीम्-दीक्षासमये चित्रां प्रसारयन्ति इति आचारः। | मध्ये चके। -1 मा० द्वि० स० श्लो० ७२ चतुर्थपादः । 2 मा० द्वि० स० श्लो०७३ चतुर्थपादः। 3 मा.द्वि. स. श्लो. ७४ चतुर्थपादः। 4.मा. द्वि० स० श्लो. ७५ चतुर्थपादः । माघे 'गुणनिकैव' इति मेदः। 5 मा० द्वि० स० श्लो०७६ चतुर्थपादः।। 6 मा० द्वि० स० श्लो. ७७ चतुर्थपादः । 7 मा० द्वि० स० श्लो. ७८ चतुर्थपादः। ....... 8 मा.द्वि. स.लो.७९ यः प्रथमः पादः स एव अत्र तृतीयः पादः। 9 मा.द्वि. स. श्लो० ७९ यः तृतीयः पादः स एव अत्र तृतीयः पादः । यश्च माघगत ७९ श्लोकस्य द्वितीयः पादः स एवं अत्रापि द्वितीयः। .. 10 मा० द्वि० स० श्लो० ७९ चतुर्थपादः । 11 मा. द्वि० स० श्लो०८. चतुर्थपादः । -मृगान्' इति माघे।... - 12 मा. द्वि० स० श्लो० ८१ चतुर्थपादः । 'कल्पते' इति माघे।
SR No.002517
Book TitleDevananda Mahakavya
Original Sutra AuthorMeghvijay
AuthorBechardas Doshi
PublisherZZZ Unknown
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy