Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 58
________________ [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं छाया विरेजुर्विलसद्वधूनां शरीरभाजः कमला इवैषाम् ॥ ४६ ॥ तवागमादेव ततो विशेषाजालागताभ्योऽधिगृहं गृहिण्यः। इहोच्छलटूरिसुमावलीभ्यः प्रकाशमभ्यस्य दृशोर्दिशन्ति ॥४७॥ त्वदृष्टिसम्भावनयाश्रयाली पीयूषयूषात्मतयेव शुभ्राम् । चक्रुर्युवानः प्रतिबिम्बिताङ्गाः स्ववेषवर्णैर्विविधामिहाद्य ॥४८॥ अथात्र शिष्ये खपदप्रतिष्ठा प्रणीय नः प्रीणय चित्तनिष्ठाम् । महः क्रियान्मेऽस्य गृहे खबिम्बैः सजीवचित्रा इव रत्नभित्तीः ॥४९॥ गुरोर्गिरः श्रुत्युदितप्रसत्तेस्तदा स्मिता पाण्डुकपोलकाभ्याम् । बिम्बे सवर्णेऽपि सुवर्णलिप्त-स्तम्भेषु भेजे नवदर्पणश्रीः ॥५०॥ शुकाङ्गनीलोत्पलनिर्मितानां स्रजां विलेसुः प्रतिसद्म राज्यः । ___ 10 कटाक्षमाला इव पर्वलक्ष्म्यास्तथेति साधु प्रभुणाऽभ्युपेते ॥५१॥ मणीमयेष्वङ्गणकेषु धाम्नां लिप्तेषु भासा गृहदेहलीनाम् ।। अन्तःस्थिताऽपीन्दुमुखी तदाऽऽसीद् अभ्यागतेवार्थिजनाय दातुम् ॥५२॥ तत्रोत्सवस्य श्रवणामृतेन नाभूत् पुरी सा श्रवणेन तूर्णम् ।। यस्यामलिन्देषु न चक्रुरेव लोकाः स्वधाम्नां प्रतिकर्म नर्म ॥ ५३॥ 15 अस्याः खसेवास्ति पुरी द्वितीया पार्श्वेऽद्वितीया खलु सावलीति। न वेद यस्यां मणिकुहिमत्वात् मुग्धाङ्गना गोमयगोमुखानि ॥ ५४॥ गोपानसीषु क्षणमास्थितानां दिहक्षयाऽभ्येत्य दिवो वधूनाम् । जालेषु लीलालसमानुषीणां मुखेन सख्यं समुदत्यमुष्याम् ॥१५॥ नृत्यप्रलोभाद् वलभीस्थितानामालम्बिभिश्चन्द्रकिणां कलापैः। जातातपत्रप्रभया प्रभुत्वं या व्यञ्जयामास पुरी पुरीणाम्" ॥५६॥ स्फुरत्करैरप्यकरैर्विलास-व्यासक्तरामैरपि चाऽविरामैः। ' रेजे विचित्रैरपि या सचित्रहैर्विहारैरपि हारिहारैः ॥ ५७ ॥ अथैत्य तस्यां पुरी मूरिमन्त्र-दिध्यासयाऽधत्त स धारणां ताम् । अन्तर्निलीनेन्द्रियवृत्तिरेनं यस्यां जनः कृत्रिममेव मेने" ॥५८॥ १ 'खबिम्बैः' खेषां सगोत्राणां बिम्बैः संक्रान्तः।। ३ 'शुकाङ्ग-' शुकाङ्गवन्नीलानि यानि उत्पलानि । २ 'सवर्णे-' गुरोः सुवर्णवर्णवात् बिम्बे सवर्ण समानेऽपि स्मितेन ईषत्पाण्डुकपोलकाभ्यां पाण्डुलात् सुवर्णलिप्तस्तम्भेषु नव ४ 'तदाऽऽसीद-' तदा तस्मिन् समये आसीत् । दर्पणश्रीभेजे। ५ 'यस्याम्' धारणायाम् । 25 AamrAAAAAnuranamamarnamniwanian 1 मा० तृ० स० श्लो०४४ प्रथमपादः प्रथमतया । 2 मा० तृ० स० श्लो. ४५ द्वितीयपादो द्वितीयतया । 3 मा० तृ० स० श्लो० ४६ तृतीयपादः तृतीयतया । 4 मा० तृ० स० श्लो० ४६ चतुर्थपादः। 5 मा० तृ० स० श्लो. ४७ चतुर्थपादः । माघे तु 'मणिदर्पण- . श्रीः' इति मेदः। 6 मा० तृ० स० श्लो० ४८ प्रथमपादः प्रथमतया । 7 मा० तृ० स० श्लो. ४८ द्वितीयपादो द्वितीयतया । 8 मा० तृ० स० श्लो० ४८ तृतीयपादः तृतीयतया । 9 मा० तृ• स० श्लो० ४८ चतुर्थपादः चतुर्थतया। 10 मा० तृ० स० श्लो० ४९ प्रथमपादः प्रथमतया । 11 मा० तृ. स० श्लो० ४९ द्वितीयपादो द्वितीयतया । 12 मा० तृ० स० श्लो० ५० तृतीयपादः तृतीयतया । 13 मा० तृ० स० श्लो०५१ चतुर्थपादः ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112