Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 46
________________ [ द्वितीयः सर्गः ] महोपाध्याय श्री मेघ विजयविरचितं निस्त्रिंशस्त्रिजगत्रासी यस्तेजः स्कन्दवैरिणाम् । प्रत्यूष इव नव्यश्रीस्तपनो जातवेदसाम् ॥ ५२ ॥ तस्याऽकैब्बरभूजानेर्बोधिदानाद् यदीयका । दिग्दन्तिदन्तावालम्ब्य कीर्तिर्घामधिरोहति' ॥ ५३ ॥ प्रोद्दीपिते प्रतापेऽस्य कुपक्षाः क्षीणतां ययुः । शशाः किं यत्र विध्वस्तमृगपूंगो मृगाधिपः ॥ ५४ ॥ सौभाग्यभाग्याभ्युदयं प्रभोः स्तोतुं क्षमेत कः । . पूर्ण सुवर्णशैलेन्द्रं कोऽम्भसा परिषिश्चति ? ॥ ५५ ॥ उद्वेल्लद्भाग्यसौभाग्यवल्लीं पल्लविनीं जने । aaf स्तोत्ररूपेण कोऽम्भसा परिषिश्चति ? ॥ ५६ ॥ प्रभोः क कीर्तिपाथोधिः सुधाद्याः कैकदेशिनः । सादृश्यं यान्ति न कापि सर्पिषस्तोयबिन्दवः ॥ ५७ ॥ श्रीमान् विजयसेनाख्यस्तत्पट्टे सुरिराड् बभौ । क्षणाद् येनान्तरा क्षिप्ता दृष्यास्ते शत्रुसञ्ज्ञिताः ॥ ५८ ॥ स्वशक्त्युपचये केचिदस्य सूरेः सुदृष्टयः । परेऽप्युपेत्य पादाब्जसेवाहेवाकितां दधुः ॥ ५९ ॥ fooङ्घषितो लोकान् अलङ्घयानलघीयसः । विधिरष्टश्रवा जज्ञे श्रोतुमस्य गुणानिव ॥ ६० ॥ कीर्त्या भोगः श्रुताभोगः सदाभोगेः शुभश्रियः । तादात्म्यभाकू प्रभौ तस्मिन् बुद्धेर्भोग इवात्मनि " ॥ ६१ ॥ निर्दम्भविद्यादम्भोलि भिन्नदुर्भावभूभृता । सूरीन्द्रेण शमैर्जिग्ये सुदमो दमघोषजः " ॥ ६२ ॥ उर्वी सुपर्विणीं कुर्वन् श्रीराजनगरे गुरुः । अन्येद्युराययौ योगपूर्णस्तस्योत्सवाय सः " ॥ ६३ ॥ १ ‘– कब्बर—' अकप् अचलो वरो यस्य स - अकप्+वरअकब्बरः । २ - 'पूगो' "पूगः समूहः" [ अनेकार्थध्व० श्लो० १३४ अर्धाधि० ] ३ ' दूष्या- ' दूषणार्हाः । 1 मा० द्वि० स० लो० ५१ चतुर्थपादः । 2 मा० द्वि० स० श्लो० ५२ चतुर्थपादः । ३ मा० द्वि० स० श्लो० ५३ चतुर्थपादः । माघे तु '- मृग यूथो मृगाधिपः' इति । 4 मा० द्वि० स० छो० ५४ चतुर्थपादः । 5 मा० द्वि० स० ० ५४ चतुर्थपादः । 6 मा० द्वि० स० श्लो० ५५ चतुर्थपादः । १५ ४ - आभोगः ' विस्तारः । ५- आभोगः ' ज्ञानम् । ६ - दम' दमघोषो नाम पूर्वऋषिः तस्मात् जात इव लुप्तोपमा । ७' सुपर्वि ' सोत्सवाम्, सदेवाम् । 7 मा० द्वि० स० श्लो० ५६ चतुर्थपादः । 8 मा० द्वि० स० श्लो० ५७ प्रथमपादः । माघेऽपि स एव प्रथमपादः । 9 मा० द्वि० स० श्लो० ५८ पूर्वार्धम् । माघेऽपि तदेव पूर्वार्धम् । 10 मा० द्वि० स० छो० ५९ चतुर्थपादः । 11 मा० द्वि० स० श्लो० ६० चतुर्थपादः । 12 मा० द्वि० स०टो० ६१ चतुर्थपादः । 5 10 15 20

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112