________________
[ द्वितीयः सर्गः ]
महोपाध्याय श्री मेघ विजयविरचितं
निस्त्रिंशस्त्रिजगत्रासी यस्तेजः स्कन्दवैरिणाम् । प्रत्यूष इव नव्यश्रीस्तपनो जातवेदसाम् ॥ ५२ ॥ तस्याऽकैब्बरभूजानेर्बोधिदानाद् यदीयका । दिग्दन्तिदन्तावालम्ब्य कीर्तिर्घामधिरोहति' ॥ ५३ ॥ प्रोद्दीपिते प्रतापेऽस्य कुपक्षाः क्षीणतां ययुः । शशाः किं यत्र विध्वस्तमृगपूंगो मृगाधिपः ॥ ५४ ॥ सौभाग्यभाग्याभ्युदयं प्रभोः स्तोतुं क्षमेत कः । . पूर्ण सुवर्णशैलेन्द्रं कोऽम्भसा परिषिश्चति ? ॥ ५५ ॥ उद्वेल्लद्भाग्यसौभाग्यवल्लीं पल्लविनीं जने । aaf स्तोत्ररूपेण कोऽम्भसा परिषिश्चति ? ॥ ५६ ॥ प्रभोः क कीर्तिपाथोधिः सुधाद्याः कैकदेशिनः । सादृश्यं यान्ति न कापि सर्पिषस्तोयबिन्दवः ॥ ५७ ॥ श्रीमान् विजयसेनाख्यस्तत्पट्टे सुरिराड् बभौ । क्षणाद् येनान्तरा क्षिप्ता दृष्यास्ते शत्रुसञ्ज्ञिताः ॥ ५८ ॥ स्वशक्त्युपचये केचिदस्य सूरेः सुदृष्टयः । परेऽप्युपेत्य पादाब्जसेवाहेवाकितां दधुः ॥ ५९ ॥ fooङ्घषितो लोकान् अलङ्घयानलघीयसः । विधिरष्टश्रवा जज्ञे श्रोतुमस्य गुणानिव ॥ ६० ॥ कीर्त्या भोगः श्रुताभोगः सदाभोगेः शुभश्रियः । तादात्म्यभाकू प्रभौ तस्मिन् बुद्धेर्भोग इवात्मनि " ॥ ६१ ॥ निर्दम्भविद्यादम्भोलि भिन्नदुर्भावभूभृता । सूरीन्द्रेण शमैर्जिग्ये सुदमो दमघोषजः " ॥ ६२ ॥ उर्वी सुपर्विणीं कुर्वन् श्रीराजनगरे गुरुः । अन्येद्युराययौ योगपूर्णस्तस्योत्सवाय सः " ॥ ६३ ॥
१ ‘– कब्बर—' अकप् अचलो वरो यस्य स - अकप्+वरअकब्बरः ।
२ - 'पूगो' "पूगः समूहः" [ अनेकार्थध्व० श्लो० १३४ अर्धाधि० ]
३ ' दूष्या- ' दूषणार्हाः ।
1 मा० द्वि० स० लो० ५१ चतुर्थपादः ।
2 मा० द्वि० स० श्लो० ५२ चतुर्थपादः ।
३ मा० द्वि० स० श्लो० ५३ चतुर्थपादः । माघे तु '- मृग
यूथो मृगाधिपः' इति ।
4 मा० द्वि० स० छो० ५४ चतुर्थपादः ।
5 मा० द्वि० स० ० ५४ चतुर्थपादः ।
6 मा० द्वि० स० श्लो० ५५ चतुर्थपादः ।
१५
४ - आभोगः ' विस्तारः । ५- आभोगः ' ज्ञानम् ।
६ - दम' दमघोषो नाम पूर्वऋषिः तस्मात् जात इव लुप्तोपमा ।
७' सुपर्वि ' सोत्सवाम्, सदेवाम् ।
7 मा० द्वि० स० श्लो० ५६ चतुर्थपादः ।
8 मा० द्वि० स० श्लो० ५७ प्रथमपादः । माघेऽपि स एव
प्रथमपादः ।
9 मा० द्वि० स० श्लो० ५८ पूर्वार्धम् । माघेऽपि तदेव पूर्वार्धम् । 10 मा० द्वि० स० छो० ५९ चतुर्थपादः । 11 मा० द्वि० स० श्लो० ६० चतुर्थपादः ।
12 मा० द्वि० स०टो० ६१ चतुर्थपादः ।
5
10
15
20