Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 47
________________ देवानन्दमहाकाव्यम् । [द्वितीयः सर्गः] सूरि विवन्दिषोः पुंस्त्रीसंघस्याभिगमाद् वने । व्यभाद् विभातवद् योगस्तेजसू-तिमिरयोः कुतः ॥ ६४ ॥ समौक्तिकस्रजां सूरि नेमुषां भूस्पृशां श्रियः। ऊहुः सुमनसां भारेवोमनीभूतभूरुहः ॥६५॥ प्रभुं प्रवेशयामास श्राद्धवर्गः समृद्धिभाक् । महोत्सवैः सहोत्साहं पुरी माहिष्मतीद्विर्षम् ॥ ६६ ॥ स्थिरात्मजोऽपि तत्रैत्य जगत्तीर्थ तमानमत् । न कः कल्पद्रुमं प्राप्य सर्वस्वार्थ समीहते ? ॥ ६७ ॥ प्रारेभे च विभुाख्यां स श्रेयः कुरुतां जनः। वर्गापवर्गयोर्यो हि सर्वः स्वार्थ समीहते ॥ ६८॥ प्राप्य तां विद्युतः सम्पद्वरां चापल्यमादृताम् । मा प्रमादीर्जनः खादी मधुविन्दोरिवाश्रवैः ॥ ६९॥ इत्याद्याः श्रीगुरोर्वाचश्चित्रदाश्चित्रदेवताः। सभाभित्तिप्रतिध्वानर्भयादन्ववदन्निव ॥७॥ निपीय गास्ताः सूरीन्दोधर्माम्भोधिविवर्द्धनीः। सवित्री वशिशोर्वक्तुं प्रस्तावमदिशद् दृशा ॥७१ ॥ प्राञ्जलि: स्थिरजन्माऽथ गुरुं विज्ञपयन्निति । उत्थाय तमसश्छेदे जगादाने गदाग्रजम् ॥ ७२ ॥ मह्यं देयं बुधाऽऽदेयं व्रतानां पञ्चकं महत् । गुरो! त्वमिङ्गितज्ञोऽसि खलूक्त्वा खलु वाचिकम् ॥ ७३ ॥ यद्यपि वपुरे गत्वैवोचितं तत् तथाऽप्यहो। तव वाचाऽशीतकत्वमुपैति मम जल्पतः" ॥ ७४ ॥ प्रारेभेऽथास्य दीक्षायै सम्भूय खजनैर्घनैः। १ 'कुतः' पृथिव्याः । ... 'गदाग्रजम्' तमसः छेदे गदाग्रज विष्णुम् , अग्रे उत्थाय २'माहिष्म'-माहिष्मतीस्पर्धिनीम्-तत्तुल्याम् इत्यर्थः । जगाद । ३ 'जग-' जगतः पूज्यत्वात् यद्वा जगत् जङ्गमं तीर्थम् । ____'खलूक्ला' खलु निश्चितम् , वाचिकं वार्तिकम् , खलूक्त्वा ४ 'सर्वखा-' खस्य धनस्य अर्थाः कार्याणि यस्मात् तम् न कार्यम् । ५'-श्रवैः' इन्द्रियादिभिः । ८'अशीत-' अनालस्यम् । 15 20 कल्पद्रुमम् । 1 मा० द्वि० स० श्लो०६२ चतुर्थपादः । 2 मा० द्वि० स० श्लो०६३ चतुर्थपादः । 3 मा० द्वि० स० श्लो० ६४ चतुर्थपादः। माघे तु 'माहिष्मती द्विषः' इति भेदः । 4 मा० द्वि० स० श्लो० ६५ चतुर्थपादः । 'सर्वः खार्थ समीहते' इति माघपाठः। 5 मा० द्वि० स० श्लो० ६५ चतुर्थपादः समानः । 6 मा० द्वि० स० श्लो०६६ माघस्य प्रथमः पादः स एवं अत्रापि प्रथमः । माघे 'विद्युताम्' इति भेदः । 'प्राप्यताम्' इति क्रियापदम् । 7 मा० द्वि० स० श्लो० ६७ उत्तरार्धं समग्रम् । 8 मा० द्वि० स० श्लो०६८ चतुर्थपादः । 9 मा.द्वि. स. श्लो०६९ चतुर्थपादः । 10 मा० द्वि. स. श्लो. ७. चतुर्थपादः । 11 मा० द्वि. स. श्लो०७१ चतुर्थपादः ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112