Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 296
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः जातः, उपदेशश्रवणेच्छा चेत्तीधुनैव युवां श्रावयामीति तद्वचो निशम्य रूपवती बहिरागता । एतद्विलोक्य भूजानिजयोक्तम्भगिनि ! बहिः कुत्र गच्छसि ? कार्य त्वन्तरस्तीति निगद्य सा तां पुनरन्तराकृष्याऽऽनिनाय । इत्थं द्वयोरमुमुपद्रवं वीक्ष्य साध्व्यः सविस्मया बभूवुः, तावद्राजात्मजया गदितम्-हे साध्वि ! श्राविकाणां भवन आहारग्रहणेन सह चौर्यं त्वं कया महत्तरया शिक्षिता ? यदा मम सखी हविरानेतुमन्तर्गता तदा त्वया मणिकर्णाऽवतंस उत्थापित आसीत् । दृष्टेऽपि तस्मिन् सख्युरप्रियं शङ्कमानया मया तदानीं न किमप्युक्तम, अन्यथा तदैवाहं कथयेयम, अथ त्वं तदाभरणं तस्यै देहि, इयं तु मयि शकते, अतोऽशक्यतया ममाऽयमुदन्तो वक्तव्यो भवति । गुप्ततया दत्तेऽस्या वस्तुनि, केचिदप्यमुं वृत्तान्तं न ज्ञास्यन्ति, इतरथाऽहं कृत्स्ने नगरे तवृत्तमुद्घोषयिष्यामि । इत्थं राजकुमार्या वचनाकर्णनेन क्षुब्धया साध्व्या निगदितम्- अहो ! त्वं राजात्मजा भूत्वेत्थमसत्यं कथं कथयसि ? मया तत्कर्णाभरणं नाऽऽनीतम्, अप्रतीते सति मे झोलिकापात्रादीनीक्षितुमर्हसि, ममैवं वस्तुना नो प्रयोजनम् । तदा सरोषया राजात्मजयोक्तम्-अरे! झोलिकाद्यवलोकनेन किम्? सरलत्वेन तत्कथं न समर्पयसि ? | परमज्ञाततया साऽऽर्या कुतो दद्यात् ? सुवर्जितपरद्रव्यापहरणवार्तायास्तस्या एकमपि वचनममन्यमानया राजपुत्र्या सभर्त्सनं तदञ्चलतस्तदाभरणं तत्समक्षे निःसार्य रूपवत्याः करे ददे, सहैव च तां शिक्षयन्त्युवाचपश्य, आसां साधुत्वम्, अथ भ्रमादप्येतादृशामार्याभासजनानां वाग्वागुरायां न पतितव्यम् । अनेन प्रपञ्चेन साध्वीषु रूपवत्या || २८४ ।।

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338