Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः चन्द्रनृपदीक्षाग्रहणम् सप्तमगुणस्थाने रन्तुं लग्राः । राजर्षिश्चन्द्रो निरतिचारं चारित्रं पालयन प्रकृष्टज्ञानप्राप्तौ च संनिलीनः सन् षट्कायजीवेषु दयामावहन, सकलजीवानात्मवदमस्त । पुद्गलद्रव्यासक्तौ निरवातं चेतनद्रव्यं मूलगुणेनाऽऽकृष्योर्ध्वं नयन वस्तुभेदज्ञानोद्भवात्स जडचैतन्ययोर्मेदं विदन् यतिधर्मक्षमादिसमताप्रमुखान् गुणानेव नैजान्यथार्थहितैषिणो मेने । यतःअतुलसुखनिधानं सर्वकल्याणबीजं, जलनिधिजलपोतं भव्यसत्त्वैकचिह्नम् । दुरिततरुकुठारं पुण्यतीर्थं प्रधानं, पिबत जितविपक्षं दर्शनाख्यं सुधाम्बु
॥३६॥ सोऽष्टप्रवचनरूपाया मातुरङ्के रममाणः क्षमाखड्गेन मोहराजं पराजिग्ये । पुनरन्तरङ्गसंवेगापगायां परमानन्दसन्दोहस्वरूपमात्मानं स्नापयन् शरीरस्यन्दनं रत्नत्रय्याः सुयोगरूपहयैश्चालयन्कुपथगमनात्तान् न्यवारयत् । तेनाऽऽर्हद्धर्मस्य विवेकगिरेरनुभवरसकुम्पिकां प्राप्य सौभाग्यवत्सन्तोषमन्दिरवास्तव्यक्षायिकभावाय सा दत्ता । 'पञ्चमेरुतुल्यान्पञ्चमहाव्रतानतिशक्तिशालीभूय स उत्थापितवान् पञ्चेन्द्रियमृगांश्च मृगेन्द्रवनिजायत्तान् विधाय संवरशाले संयतान् कृत्वा रक्षितवान् । यतःआपदां कथितः पन्था इन्द्रियाणामसंयमः । 1. पांच मेरु से उपमित करने हेतु पांच महाव्रत लिखा है, उस समय चार महाव्रततोपण ही होता था ।
|| ३०३ ।।

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338