Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 306
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः वास्ते । अत उक्तम्किं करोति नरः प्राज्ञः ?, प्रेर्यमाणः स्वकर्मभिः । प्रायेण हि मनुष्याणां, बुद्धिः कर्मानुसारिणी ॥२४॥ स पर्वतादिनाऽपि, न रुध्यते, त्वया निजप्रागभवचरित्रेण कर्मणां वैचित्र्यमवगन्तव्यम् । त्वया रूपवतीभवेऽतिकोपवशेन कोसीपक्षिणः पक्षौ लुञ्चिती, तस्मात्सा वीरमती भूत्वाऽत्र जन्मनि त्वां कुक्कुटं विधाय तयापि भृशं त्वं क्लेशितः, एवं च त्वत्तो निजपूर्वभववैरस्य प्रतिफलं गृहीतम् । पूर्वकर्मणां यदोदयो भवति, तदा स सर्वैर्भोक्तव्योऽवश्यमेव भवति । यतःकृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥२५॥ अपि चयथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म, कर्तारमनुधावति સરદા तत्र कस्यचिदपि कोऽप्युपायो न चलति । तिलकमअर्या पूर्वभवे साध्व्या मृषा स्तैन्यकलङ्को दत्तः, अतोऽत्र जन्मनि तया साध्व्यापि कनकध्वजो भूत्वा प्रेमलालच्छी विषकन्याकलङ्केन कलङ्किता | पूर्वभवे रूपवत्याः समक्षे यथा कोसीरक्षकस्य प्रभावो नाऽचलत्, तथैवाऽत्र भवेऽपि वीरमत्याः पुरो गुणावल्या अपि कश्चित्प्रभावो नाऽचलत् । रुदत्यामेव तस्यां तत्स्वामी त्वं चन्द्रनृपो || २६४ ||

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338