Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 304
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः सुजनस्तु कनकघटयदुर्भद्यश्चाशु सन्धेयः ॥२१॥ कोसीमारणाद् रूपवत्या मनस्येव महान्पश्चात्तापो जायते स्म, परं सकृदविचारपूर्णकार्ये जाते पुनस्तदकार्यकार्यकल्मषाज्जनः कदाचिदपि नो मुच्यते, इति मनीषिभिः सदाचारवर्जितमविचारितं कर्म नैव क्रियते । यतःदुःखं वरं चैव वरं च भैक्षं, -- वरं च मौयं हि वरं रुजोऽपि । मृत्युः प्रयासोऽपि वरं नराणां, परं सदाचारविलङ्घनं नो ॥२२॥ प्रतिकर्मणा हि नव्यकर्म सृज्यते, तस्मिंश्च भुज्यमाने पुनरन्यत् शुभाशुभं कर्मापि बध्यते, तस्मात्सुधीभिर्यत्कर्तव्यं तत्सुविचार्यैव करणीयम् । रूपवत्याः करेण यद्यपीदं कार्यमत्यनुचितमभूत, तथापि सा जिनमतेऽतीव प्रवीणाऽऽसीत्, अतस्तयाऽऽलोचनानिन्दागर्हादिपश्चात्तापैस्तत्कर्म प्रक्षीणं कृतम्, स्त्रीवेदस्य च स्थाने पुंवेदः प्राप्तः । ततो यथासमयमायुषः क्षये यदा सा पञ्चत्वमगमत, तदाऽऽमाधिपस्य राज्याश्चन्द्रावत्या उदरात्पुत्ररूपेणोदपद्यत । अत्र जन्मनि तस्य नाम चन्द्रकुमारो बभूव, हे राजन् ! स चन्द्रकुमारः स्वयं भवानेवास्ति, इत्थं हे राजन् ! अविधि सविधि वा कृतं सुकृतं कदापि निष्फलं न भवति । कोसीरक्षको यो रूपवतीं तन्नाशनिवारणार्थ प्रत्यबोधयत्, तद्दयाधर्मप्रभावत एव मृते भवतः सुमतिनामकः स एव सचिवोऽभूत् । || २६२ ||

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338