________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः सुजनस्तु कनकघटयदुर्भद्यश्चाशु सन्धेयः
॥२१॥ कोसीमारणाद् रूपवत्या मनस्येव महान्पश्चात्तापो जायते स्म, परं सकृदविचारपूर्णकार्ये जाते पुनस्तदकार्यकार्यकल्मषाज्जनः कदाचिदपि नो मुच्यते, इति मनीषिभिः सदाचारवर्जितमविचारितं कर्म नैव क्रियते । यतःदुःखं वरं चैव वरं च भैक्षं, -- वरं च मौयं हि वरं रुजोऽपि । मृत्युः प्रयासोऽपि वरं नराणां, परं सदाचारविलङ्घनं नो
॥२२॥ प्रतिकर्मणा हि नव्यकर्म सृज्यते, तस्मिंश्च भुज्यमाने पुनरन्यत् शुभाशुभं कर्मापि बध्यते, तस्मात्सुधीभिर्यत्कर्तव्यं तत्सुविचार्यैव करणीयम् । रूपवत्याः करेण यद्यपीदं कार्यमत्यनुचितमभूत, तथापि सा जिनमतेऽतीव प्रवीणाऽऽसीत्, अतस्तयाऽऽलोचनानिन्दागर्हादिपश्चात्तापैस्तत्कर्म प्रक्षीणं कृतम्, स्त्रीवेदस्य च स्थाने पुंवेदः प्राप्तः । ततो यथासमयमायुषः क्षये यदा सा पञ्चत्वमगमत, तदाऽऽमाधिपस्य राज्याश्चन्द्रावत्या उदरात्पुत्ररूपेणोदपद्यत । अत्र जन्मनि तस्य नाम चन्द्रकुमारो बभूव, हे राजन् ! स चन्द्रकुमारः स्वयं भवानेवास्ति, इत्थं हे राजन् ! अविधि सविधि वा कृतं सुकृतं कदापि निष्फलं न भवति । कोसीरक्षको यो रूपवतीं तन्नाशनिवारणार्थ प्रत्यबोधयत्, तद्दयाधर्मप्रभावत एव मृते भवतः सुमतिनामकः स एव सचिवोऽभूत् ।
|| २६२ ||