________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः उक्तमपिआयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्वैस्तरम् । आरोग्यं विगतान्तरं त्रिजगतः श्लाध्यत्वमल्पेतरं, संसाराम्बुनिधिं करोति सुतरं चेतः कृपासकुलम् ॥२३॥
तेन कोसीरक्षकेण पक्षिणं प्रति केवलं दयामात्रमेव दर्शितम्, परन्तु तस्यापि शुभफलं प्राप्तिं विना नाऽस्थात् । तस्याः साध्व्या उपाश्रयपार्थवर्तिनी या सुन्दरीनाम्नी श्राविकाऽऽसीत्, यया च साध्व्याः कण्ठतः पाशो मोचितः, सैव मृत्योः पश्चाद् भवतो राज्ञी गुणावली बभूव | राजपुत्री तिलकमञ्जरी या मिथ्यात्विन्यासीत्, सा मृत्वा प्रेमलालच्छी जाता | साध्व्या मृत्यौ जाते सा कुष्ठी कनकध्वजकुमारोऽभूत् । अज्ञानिनः प्राणिनः कर्मणां सदसद्गतिं न विदन्ति, अतस्तेषामन्ते कीदृशः परिणामो भवति, तत्पश्यन्तु । सा शारिकाऽत्र भवे कपिलानाम्नी धात्री बभूव, तया पूर्वभवेऽपि द्वयोः सपत्न्योः कलहः कारितः, अत्र भवेऽपि च तया कपिलया तदेव कार्यं कृतम् । राजकुमारः शूरसेनो यस्तिलकमञ्जर्या रूपवत्याश्च पतिरासीत, अत्र जन्मनि स एव शिवकुमारनामा नटोऽभूत् । पूर्वभवे रूपवत्या या दास्यासीत्, कोस्यै च चतुर्दशपूर्वसारभूतो महाप्रभावयुतो नमस्कारमन्त्रः श्रावितस्तत्प्रभावेण साऽत्र भवे नटपुत्री शिवमाला, शारिकारक्षकश्चात्र भवे हिंसकमन्त्री जातः । इत्थं सर्वेषां पूर्वभवमुक्त्वा श्रीमुनिसुव्रतस्वामिना व्याहृतम्हे राजन् ! कर्मप्रवाहो यत्र दिशि प्रवहति, तत्र दिशि प्रवहन्ने
|| २६३ ।।