________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः किमपि नाऽभूत् । षोडशयामावधि पक्षहीना दुःखं भुआना सा वराकी कोसी व्यपद्यत । ततः सैव कोसी पूर्वभवीयकस्यचित्पुण्यस्योदयेन वैताढ्यगिरौ गगनवल्लभनगरस्य पवनवेगाख्यस्य राज्ञः पत्न्या वेगवत्याः कुक्षेः पुत्रीरूपेणाऽजनि । अत्रभवे पित्रा तस्या वीरमतीति नाम दत्तम्, सा चाऽऽभानरेशेन वीरसेनेन परिणीता । तयाऽप्सरोभिः प्राप्ताऽनेकविद्याऽनुभावात्पत्यौ मृत | आभापुर्या राज्यं बुभुजे । रूपवत्याः परिचारिकया मृत्युकाले कोस्यै नमस्कारमन्त्रः श्रावितो मृतायां च तच्छरीरस्य समुचितव्यवस्था कृता । इतो रूपवती निजाऽकर्तव्यस्य कृतेऽनुतापं कर्तुं लग्ना । तिलकमञ्जरी तु पूर्वत एव महामिथ्यात्वग्रस्ता कुटिलाशया चाऽऽसीत्, अतः कोसीमरणानन्तरं तस्या भाषणाऽवसरः पूर्वतोऽप्यधिकं समायातः । तयाऽमूं घटनामवलम्ब्य जिनमतं निन्दन्त्या रूपवत्युक्ता तव जिनमतं मया सम्यग् दृष्टम् । तत्राऽऽस्येन तु जना दयां दयां रटन्ति, परमेवं निर्दयकर्म क्रियते । हन्त ! वराकीमीदृशीं निरपराधिनीं कोसीं मारयन्त्यास्ते मनसि मनागपि दया कथं नाऽऽगता ? इत्थमकार्यं कर्तुं ते करः कथमुदतिष्ठत् ? अहं तु भ्रमादप्येवंविधस्य निरागसो जीवस्य हिंसां कदापि नैव करोमि । सपत्न्या एनेन वचसा रूपवती बहु चिखिदे, सहैवाऽनया वार्तया तयोर्धार्मिकमतभेदोऽधिकं ववृधे । तदा शूरसेनेन प्रबोधितयोरपि तयोर्वह्नौ घृतप्रक्षेपेणेव द्वेषानल एधमान एवाऽऽसीदतस्ते कथमपि न शेमतुः ।
यतः
मृद्घटवत्सुखभेद्यो, दुःसन्धानश्च दुर्जनो भवति ।
।। २६१ ।।