________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः विलोक्य प्रमुदिता रूपवती तद्रक्षणाय सेवकं नियुज्य सर्वथा तल्लालनपालने लीना जाता । कयाचिद्दास्या विदितसमाचारा तिलकमञ्जरी सपत्न्याः सुखमसहमाना मनसि प्रौषाञ्बभूव । अन्यदोभे एकत्रैवाऽऽसीने निजं निजं खगं प्रशंसमाने आस्ताम्, तदा द्वेषदग्धाभ्यां ताभ्यां यः खगोऽतिमिष्टं भाषेत, स एव वरो ज्ञेय इति पणः कृतः । अथ वादितयोस्तयोस्तिलकमञ्जर्याः खगः पटुवाक्यत्वाद् बहुशो बहुविधं मधुरवचनमभाषिष्ट, रूपवत्यास्तु किञ्चित्सकृदपि नोवाच तेन तिलकमञ्जरी प्रमोदादुच्छलति स्म । रूपवती तु निजपक्षिण इमामवस्थां वीक्ष्य भृशं चिखिदे । तया चेतसि चिन्तितम् - नूनं मे विहङ्गो दर्शन एव मनोज्ञो विद्यते, किन्त्वस्मिन् गुणलेशोऽपि न वर्तते । एवं शारिकया कोसीपक्षिणि पराजिते तिलकमञ्जरी रूपवतीं सभर्त्सनं वक्तुं लग्ना, क्व मदीया शारिका कुत्र त्वदीयगुणमौषी कोसी ? एवंविधानां कोसीनां सहस्रमपि मम शारिकातुलनां नाऽञ्चति । तदा सुबोधा सुविचक्षणाऽपि रूपवती तिलकमञ्जर्या अभिमानपूर्णेनानेन वचनेन कोस्यै क्रुद्ध्वा तदुभयपक्षौ लुञ्चित्वा प्रास्यत् । अत उक्तमपि
1
संतापं तनुते भिनत्ति हृदयं सौहार्दमुच्छेदयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् कीर्तिं कृन्तति दुर्गतिं वितरति व्याहन्ति पुण्योदयं, दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥२०॥ तदानीं कोसीरक्षकेण रूपवती बहुबोधिता, परं तत्फलं
|| २६० ||