________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः नाऽदात् । चेद्रूपवती जातु तन्मधुरोक्तिस्नेहवशेन क्रीडनाय यदा याचते स्म, तदा तिलकमञ्जरी तां स्पष्टमाचष्ट, यदियं मम जनकेन मदर्थं प्रेषिता | त्वं त्वत्कृते स्वपितरं कथं न याचसे ? किमित्थंकरणे ते लज्जा जायते ? तिलकमञ्जर्या इदं वचो निशम्य बहुदुःखमिताऽपि रूपवती स्वमनोगाम्भीर्यादलात्परवस्तुग्रहणाशक्यत्वाच्चातिरोषं न कृतवत्यासीत्, यतो रोषात्कार्यहानि जानाना विज्ञा सा शान्तिमेवाऽशिश्रियत् । यतःनरस्याभरणं रूपं, रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा તળા अपि चयस्य शान्तिमयं शस्त्रं, क्रोधाग्नेरुपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कुतः ? ॥१९॥
ततः कियति काले गते रूपवत्यापि तादृशपक्षिप्रेषणाय स्वपितुः पार्थे पत्रं प्रहितम् । ततो विचक्षणेन सचिवेनापि पत्रपठनमात्रेणैव स्वाङ्गजायाः सपत्नीदाहकारणं द्वितीयपक्षिमार्गणं विदितम् । तेन तत्क्षणमेव बहवो व्याधा वनपर्वतादिषु तत्तुल्यं पक्षिणमानेतुं प्रेषिताः, परं तादृक् शारिका तु क्वाऽपि न लब्धा । अतो मन्त्रिणा ध्यातम्-चेदहं तनयार्थ शारिकां न प्रेषयिष्यम, तर्हि सा मनोम्लानाऽभविष्यत्, अतस्तेन कोसीजातिकमेकं पक्षिणं शारिकातुल्यरूपं स्वर्णपिअरे कृत्वा पुत्रीपार्थे प्रेषितः । इयं कोस्यपि बाह्यरूपेण तया शारिकया कथञ्चिदपि न्यूना नाऽऽसीदिति तां
|| २८६||