________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः वृद्धि-र्भवत्येव, अतो जगति सपत्नीसम्बन्धोऽवरादप्यवरो भवति। तत्र मिथः प्रेम्णो नामाऽपि नो जायते, पुनरपि लोकाचारादेकाऽन्यां भगिनीत्युक्त्वाऽऽह्वयति । परमनेकश एकाऽपरां कलङ्कयन्ती कटूक्त्या तर्जयन्ती च द्वेषान् मनस्येव दन्दह्यते । स्त्रैणेनाऽनेन कलहेन पुंसोऽपि दुःखमयं निजजीवनं भारभूतं लक्ष्यते, पुनः सुखं तु तस्य स्वप्नेऽपि नैव भवति । यदोढपार्वतीगङ्गस्य शिवस्याऽपि बम्भ्रमणा जाता, तदा पामरजनानां तु वक्तव्यमेव किमस्ति ? परं राजकुमारशूरसेनस्योपरि साम्प्रतमिदं दुःखमतिमात्रं न पतितमासीत् । कुतो यथा ताम्बूलिको निजताम्बूलानि साम्येन रक्षति, तथैव सोऽपि पत्नीयुगं सदैव समभावेन रक्षितवान्, तथापि समीरसंचालितपत्राणां स्थैर्यचेष्टावत्तस्य सर्वाऽपि समभाव-चेष्टा निष्फलतामियाय । इतस्तिलकापुर्यां तिलकमञ्जर्याः पित्रे केनचिव्याधेन परद्वीपादानीता नव्यजातिकका शारिकोपदीकृता । इयं शारिका शिरःशिखयाऽरुणनेत्राभ्यां स्वर्णाभपक्षाभ्यां तदन्तःस्थयामबिन्दुभिश्चातिमञ्जुलाऽलक्ष्यत । पीयूषोपममिष्टभाषिणी सा सकृदपि श्रुतमात्रेणाऽभ्यस्तं काव्यकथाप्रहेलिकादि समयान्तरे पुनस्तथैव श्रावयित्वा जनानां मनोरञ्जनं करोति स्म । इत्थमेनामवलोक्य प्रसन्नमनसा राज्ञा तां स्वर्णपिअरे तदैव संस्थाप्य निजपुत्र्या मनोरञ्जनाय सा वैराटनगरे प्रेषिता । तिलकमञ्जर्यपि तां प्राप्य मुमुदेतमां, पुनस्तद्रक्षार्थमेको नरो नियुक्तस्तया । अथाऽनया सह क्रीडनं, तस्या नित्यं नवं नवं वस्तुप्सापनं, तद्वचोभिश्च प्रहर्षणम्, तिलकमञ्जर्या नित्यकर्म बभूव । सा तामतिप्रेम्णानिशं निजसन्निधावेव रक्षन्ती रूपवत्या हस्तेन स्प्रष्टुमपि
|| २८८ ॥