________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्राग्भवोदन्तः श्रुत्वाऽतीव जहर्षेति तदानीमेव निपुणगणक आकारितः परिणयमुहूर्तश्च निर्णायितः । ततो राज्ञो मदनभ्रमात्प्रास्थानिकीमाज्ञां लब्ध्वा धीसखः स्वस्वामिसमीपमेत्य तत्रत्यमखिलं समाचार श्रावितवान्, श्रुततदुदन्तो वैराटनरेशोऽपि भृशं मुमुदे । तदनन्तरं यथासमयं महासमारोहण सज्जितजन्यजनैः समं वैराटनरेशः सकुमारशूरसेनस्तिलकापुरीमाययौ । तत्र सानन्दं विवाहकर्मणि सम्पन्ने राज्ञा मन्त्रिणा च हस्त्यश्वरथसेवकवस्त्राभूषणाद्यनेकवस्तूनि यौतकोपलक्षे दत्तानि । ततः कुमारः शूरसेनोऽप्यनया सामग्योभाभ्यां वधूभ्यां सह वैराटनगरे समाययौ । ततः वश्रवाऽर्पितगृहमारे उभे वध्वावपि यथोचितरीत्या गृहभारं वहमाने स्वभ; समं सुखेन कालं व्यत्ययांचक्रतुः । इत्थं प्रेम्णा प्रवर्तमानयोरपि तयोर्धर्मविषये सदैव विवादो बोभूयते स्म । - यतःअवज्ञात्रुटितं प्रेम, सुसन्धातुं क ईश्वरः । सन्धिं न स्फुटितं याति, लाक्षालेपेन मौक्तिकम् ॥१७॥
धार्मिकमतभेदाद भिन्नचेतस्कयोरुभयोमिथः सापत्न्योदयेन कलहोऽपि वरीवृत्यते स्म । यतः सपत्नीत्वे केनचित् कथितमस्ति, यद् दारवीमपि सपत्नी स्त्रियो द्रष्टुं नेहन्ते । सहजयोरपि सापल्ये मिथो द्वेषोदयो जायत एव, कस्मिंश्चिदेकस्मिन्नेव चारुवस्तुनि यदाऽनेकजनानामभिलाषोत्पद्यते, तदा तेषु शात्रवं भवनं विना नाऽवशिष्यते, यत एकस्यैव पदार्थस्य युगपदनेकोपभोगो न संभवति । इत्थं सकृच्छात्रवस्याङ्कुरोद्गमे जाते पुनस्तस्मिन्नुत्तरोत्तरं
|| २८७ ॥