________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्राग्भवोदन्तः सुरसुन्दर्यैकया पार्श्ववर्तिन्याऽन्तेवासिन्या श्राविकया तत्रागत्य तां साध्वीं तथा विलोक्य पाशतो विमोच्य यथोचितोपचारेण सा सचेतनीकृता । पश्चाच्चैतन्यमागता साऽपि समतासद्म प्राप्य निरतिचारं चारित्रपालनं कर्तुं लग्ना । इत्थमनेन महादुष्कर्मणा राजभुवा निबिडमेकं महद् भवभ्रमणकारणं कर्म बद्धम् । राजपुत्रीसचिवपुत्र्योर्निरन्तरं जैनं शैवं च मतमवलम्ब्य विवादः प्रवर्तित आसीत् । ते नैजं नैजं धर्मं श्रेष्ठं मत्वा तदाऽऽचारं पालयन्त्यौ परधर्मे मनागपि नाऽश्रद्दधताम् । धार्मिकमतभेदेऽपि तयोः सख्ये स्तोकमप्यभावो यथा न भवेत्तथोभे अन्यान्यसर्वविषयेषु पूर्ववदेवैकमत्येन तिष्ठतः स्म । इत्थं सुखेन तयोः काले गच्छति वैराटदेशाधिपेन जितशत्रुनृपेण निजपुत्रं शूरसेनं विवाहयितुं राजपुत्र्यास्तिलकमञ्जर्या मार्गणाय सचिवो मदनभ्रमनृपसविधे प्रहितः। राज्ञेऽपि स सम्बन्धोऽरोचत, अतस्तेनाऽऽहूता निजतनया तद्विषये पृष्टा । तयोक्तम्-पूज्यतात ! ममाऽऽली रूपवती चेत्तं वरमनुमोदेत, तर्ह्यावां तेनैकेन समं परिणयं कुर्वीवहि, यत आवाभ्यामेकेनैव वरेण पूर्वत एव परिणयप्रतिज्ञा कृताऽस्ति । एतदाकर्ण्य तिलकापुरीशेनाऽरमेवाकारितायाऽमात्याय निखिलं समाचारं निवेद्योक्तम्यदि भवदात्मजामुं वरं वृणुयात्तदोभयोः पाणिपीडनं सहैव भवेत् । धीसखेन रूपवत्या अनुमतिमुपेत्य तदर्थं सहर्षं सम्मतिर्ददे । राज्ञा मदनभ्रमेण तदैव वैराटमहिपस्य मन्त्रिणमाकार्य गदितम्राजकुमारशूरसेनेन सहाऽहं निजराजकुमार्याः करपीडनं समोदं स्वीकरोमि । सहैव चाऽस्माभिरेतदपि स्थिरीकृतम्, यद्धीसखसुतोद्वाहोऽपि तेनैव सह कारयितव्यः । सचिवोऽप्यमुमुदन्तं
|| २८६ ||