________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्राग्भवोदन्तः मनोवैराग्य-श्रद्धाविरहो भवेदिति जानानायाः क्ष्मापजाया धारणा विपरीता निर्गता, अत आसां सर्ववार्तानां प्रभावो रूपवत्यां वैपरीत्येनाऽपतदिति तया सचिवाङ्गजयोक्तम्-भगिनि ! निःसंशयमेतत्समस्तं तवैव कुकर्म वर्तते, यतो मूर्तास्त्यागरूपिण्यस्ता जात्वपि चौर्यं नैव कुर्युः । ततस्तया रूपवत्या साध्व्य ऊचिरेभवतीभिरेता वार्ता मनसि मनागपि न ध्यातव्याः । कुतो मिथ्यात्विनीयं जैनधर्मं द्वेष्टि, ततोऽनयैवैतत्कुकार्यं कृतमस्ति । इत्थं श्रद्धाप्रेमगर्भितैर्वचोभिस्ताः साध्वीः सान्त्वयित्वा रूपवती राजपुत्र्या सह स्वावासमागता । इत्थं राजसुतायाः साध्वीसंगनिवारणयुक्तिः प्रतिकूलतामियाय । गतयोस्तयोश्चेखिद्यमानयाऽऽरोपितचौर्यया साध्व्या मनसि चिन्तितम् - एष वृत्तान्तो नगरे चेत्प्रसरेत्तदा वयं सर्वाः कलङ्किता भवेम । यतो राजसुतोक्तिषु साधारणतः सर्वेऽपि विश्वासमेष्यन्ति इति कलङ्कितजीवनापेक्षया मे मरणमेवाऽतिश्रेयोऽस्ति ।
|
उक्तमपि
यज्जीवति क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभज्यमानम् । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः, काकोऽपि जीवति चिराय बलिं च भुङ्क्ते
En
क्षोभाऽऽविष्टश्चारित्रवानपि नरः कर्तव्याऽकर्तव्यमूढो भवति ।
अतस्तया साध्व्या चारित्रकलङ्कभयाद्रहसि स्वमरणाय कण्ठे पाशो बद्धः, परं प्राणवियोगात्प्रागेव विदितराजसुताकृतोपद्रववार्तया नाम्ना
|| २८५ ।।