________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः जातः, उपदेशश्रवणेच्छा चेत्तीधुनैव युवां श्रावयामीति तद्वचो निशम्य रूपवती बहिरागता । एतद्विलोक्य भूजानिजयोक्तम्भगिनि ! बहिः कुत्र गच्छसि ? कार्य त्वन्तरस्तीति निगद्य सा तां पुनरन्तराकृष्याऽऽनिनाय । इत्थं द्वयोरमुमुपद्रवं वीक्ष्य साध्व्यः सविस्मया बभूवुः, तावद्राजात्मजया गदितम्-हे साध्वि ! श्राविकाणां भवन आहारग्रहणेन सह चौर्यं त्वं कया महत्तरया शिक्षिता ? यदा मम सखी हविरानेतुमन्तर्गता तदा त्वया मणिकर्णाऽवतंस उत्थापित आसीत् । दृष्टेऽपि तस्मिन् सख्युरप्रियं शङ्कमानया मया तदानीं न किमप्युक्तम, अन्यथा तदैवाहं कथयेयम, अथ त्वं तदाभरणं तस्यै देहि, इयं तु मयि शकते, अतोऽशक्यतया ममाऽयमुदन्तो वक्तव्यो भवति । गुप्ततया दत्तेऽस्या वस्तुनि, केचिदप्यमुं वृत्तान्तं न ज्ञास्यन्ति, इतरथाऽहं कृत्स्ने नगरे तवृत्तमुद्घोषयिष्यामि । इत्थं राजकुमार्या वचनाकर्णनेन क्षुब्धया साध्व्या निगदितम्- अहो ! त्वं राजात्मजा भूत्वेत्थमसत्यं कथं कथयसि ? मया तत्कर्णाभरणं नाऽऽनीतम्, अप्रतीते सति मे झोलिकापात्रादीनीक्षितुमर्हसि, ममैवं वस्तुना नो प्रयोजनम् । तदा सरोषया राजात्मजयोक्तम्-अरे! झोलिकाद्यवलोकनेन किम्? सरलत्वेन तत्कथं न समर्पयसि ? | परमज्ञाततया साऽऽर्या कुतो दद्यात् ? सुवर्जितपरद्रव्यापहरणवार्तायास्तस्या एकमपि वचनममन्यमानया राजपुत्र्या सभर्त्सनं तदञ्चलतस्तदाभरणं तत्समक्षे निःसार्य रूपवत्याः करे ददे, सहैव च तां शिक्षयन्त्युवाचपश्य, आसां साधुत्वम्, अथ भ्रमादप्येतादृशामार्याभासजनानां वाग्वागुरायां न पतितव्यम् । अनेन प्रपञ्चेन साध्वीषु रूपवत्या
|| २८४ ।।