________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरद्दीपश्चन्द्रो विरतियनितासङ्गमुदितः, सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इय
चन्द्रनृपस्य प्राग्भवोदन्तः
॥१५॥
पुनस्ता गृहीत्वापि करिष्यन्ति किम् ? ताभिस्तु गृहस्य मणिमाणिक्यादि वस्तु त्यक्त्वा सुवैराग्येण दीक्षा गृहीता । ततः सद्व्रतराजिविराजितासु सत्कर्मलीनासु तासु चौर्यसन्देहोऽप्यश्रेयस्करोऽस्ति, तास्तव कुयोगितापसवद्यत्र तत्र न भ्रमन्ति । उपशमाऽलङ्कृतानां तासामग्रेऽस्य कुत्सिताभरणस्य का गणना विद्यते ? एतादृक्षाणां महासतीनां वार्तां मत्समः पामरो जनः किमवगच्छेत् ? या धनसंपत्सु दृष्टिक्षेपमपि नो कुर्वते, परिमार्जितायामेव धरायां पादौ निदधति, तासु स्तेयध्येयस्ते शोभां नाऽऽधत्ते । तास्तु खाद्यपेयानपि पदार्थान्न संगृह्णते, याचितानेवाऽदन्ति । अदत्तवस्तु करेण स्पृशन्त्यपि नो, इत्थंभूतासु सुशीलासु तासु कर्णाऽवंतसचौर्यं त्रिकालेऽपि न घटतेऽतो मम तु त्वदुक्तौ विश्वासो न जायते ।
तदा तयाऽभाणि - स्वसः ! त्वमियतीं वार्तां कथं कथयसि ? करकङ्कणायाऽऽदर्शेन किम् ? चल, आवां तदुपाश्रयं गच्छावः, चेत्तदञ्चलतस्ते कर्णभूषां निःसारयेयम्, तदा त्वया मद्वचोविश्वासो विधेयोऽन्यथाऽहं सहस्रशो मिथ्याभाषिणी स्याम्। रूपवत्या स्वीकृतेऽस्मिन् वृत्तान्ते द्वे उपाश्रयं गते तदा ताः साध्व्यो भोजनपात्रादिप्रगुणनप्रसिता आसन्निति रूपवत्या कृतवन्दनया तयाऽऽर्यया तस्यै धर्मलाभं वितीर्योचे - स्वसारौ ! क्षणं बहिस्तिष्ठताम्, अधुनाऽस्माकं गोचरी कर्तव्याऽस्ति, अद्य तदानयने विलम्बो
|| २८३ ||