________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः तत्राऽत्यवशिष्टं कार्य वर्तते । चेत्तव तदाऽऽदानेच्छा, सुविहिते द्वे अपि ग्राह्ये ! अहं किं दानाद् विमुखाऽस्मि ? तयोक्तम्-अहमेवं हास्यं कदापि न कुर्याम, येन परिणामे कलहो भवेत, मया ते कर्णाऽवतंसो न गृहीतः । स तु यदा त्वं हविरानेतुं गृहं गता, तदा तया साध्व्या गृहीतः, मयाऽऽदानकाले सा स्वचक्षुामीक्षिता परं तस्याः किञ्चित् कथनेन ते भव्यं न लगिष्यति, ततो मया मौनावलम्बनमेव युक्तं ज्ञातम् । त्वया त्वागमनेन सहैव मय्येव चौर्यमारोपितम् । मया न ते श्रवणाऽवतंसो नीत इति सशपथं कथयामीति मयि ते सन्देहमात्रोऽपि न कार्यः । तदा रूपवत्या जल्पितम्-वयस्ये ! त्वया कर्णपूरं न नीतं तत्तु तथ्यम, परं त्वं व्यर्थं तासु साध्वीषु कथं चौर्यमारोपयसि ? मुखादेवंविधवा
निःसारणाऽपेक्षया तु मूकतैव श्रेयसी वर्तते । अकारणं ताभ्यो द्वेषयन्ती त्वं कथं ताः कलङ्कयसि ? | या अदत्तमेकं तृणमात्रमपि नाऽऽददते, ता मणिमाणिक्यरत्नादिसुजटितं कर्णाभरणं कथमपहरेयुः ? | यतःक्षितितलशयनं या प्रान्तभैक्षाशनं या, सहजपरिभयो या नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति
॥१४॥ किञ्चमहीशय्या शय्या विपुलमुपथानं भुजलता,
।। २८२ ।।