________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः पुना रूपवतीपार्श्वमागता, तदानीं रूपवती मुक्तादिभिः कर्णपुष्पं विरचयन्त्यासीत्। द्वे सख्यौ सन्निधावुपविश्याऽऽनन्दवार्तां कर्तुं लग्ने | शनैः शनैर्मध्याह्नकाले समागते साध्व्यो गोचर्यर्थमागताः, प्रसेदुषी रूपवती करकार्यं मुक्त्वा तासामाहारदानायोत्थाय करस्थमुक्ताकर्णपुष्पं राजकुमार्याः समक्षे स्थाले निधाय साध्वीभ्यः पक्वान्नं दत्त्वा घृतानयनाय गृहान्तर्गत्वा तदानीय भक्त्या ताभ्योऽयच्छत् । तदा धन्यंमन्या सा निजमानसे ध्यातवती - यद वस्त्वेतादृशि सुपात्रे दीयते, तस्यैव सदुपयोगो जायते ।
यतः
चारित्रं चिनुते धिनोति विनयं ज्ञानं नयत्युन्नतिं, पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं विदलति स्वर्गं ददाति क्रमान्निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम्
॥१३॥
|
अतो योऽविवेकी जन एवंविधानां साध्वीनां निन्दां करोति, तस्य जीवनं भाररूपमेव मन्तव्यम् । साध्वीषु राजकुमार्या ईर्ष्यालुता पूर्वमेव कथिताऽस्ति । अनयेर्ष्यया यदा रूपवती घृतार्थमन्तर्गता तदैव राजकुमार्या तत्कर्णाभरणं साध्व्या अञ्चले छन्नं बद्धम् । तस्या इयं कपटकला रूपवत्याः साध्वीनां च कस्या अपि विदिता न जाता । यदाहाराऽऽदानाऽनन्तरं साध्व्यो गन्तुं प्रवृत्तास्तदा पूर्ववद् रूपवती द्वारं यावत्तदनुगमनात्पश्चादागता । तत उत्थापितस्थाल्या तया तत्र श्रुत्याभरणमदृष्ट्वा राजकुमारी प्रोक्ता भगिनि ! हास्यं किं क्रियते ? मम श्रोत्राऽऽभरणं देहि, सम्प्रति
।। २८१ ।।