________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागमवोदन्तः श्रेयः ।
नृपात्मजोक्तमेतद्वचो निशम्य रूपवत्या व्याहृतम्-प्रियवयस्ये ! त्वमेतत्किं भाषसे ? सतीनां जुगुप्सा नोचिता | मद्गुहे याः साध्व्य आयान्ति, याचाहं गुरुवद् मन्ये ता निरतिचारं पञ्चमहाव्रतान् पालयन्ति, लोभस्तु तासां स्तोकोऽपि नास्ति, संवेगतटाकतटहंसी-निभानाममूषामेकस्याऽप्यक्षरस्य प्रतिदानं दातुं नाऽलमस्मि । कृतमदुपकृतिष्वासु चेद् वृथासूयाकल्पनां करिष्यामि, तदा मे ध्रुवं नरके गन्तव्यं भविष्यति । यतःअत्युगपुण्यपापाना-मिहैय फलमाप्यते । त्रिभिवर्षेत्रिभिर्मासै-त्रिभिः पौस्त्रिभिर्दिनैः ॥११॥
तव निन्दया तु तासां किञ्चिच्छुभाऽशुभं न भविष्यति, प्रत्युत तत्कीर्तिरेधिष्यते । अहं तु ताभिः पशोर्मनुष्यो विहितः, अतः सर्वदा तासां शुभेच्छुकाऽस्मि जन्मान्तरेऽपि तच्छिष्यभावमिच्छामि, तास्तु नमस्या भजनीयाश्च सन्ति, ततस्तासां निन्दाकरणं नोचितम् । यतःचाण्डालः पक्षिणां काकः, पशूनां चैव कुक्कुटः । कोपो मुनीनां चाण्डालः, सर्वचाण्डालनिन्दकः
एतादृशां सत्तमानां साध्वीनां निन्दाजन्यमहापापेन जनो लेलिप्यते, तत्पुण्यपादपश्च क्रमशो विशुष्कः परिणामे नश्यति । एतदाकर्ण्य भूपाङ्गजा मौनमादाय निजावासं गता | परेद्यवि सा
|| २८० ॥