________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः मदुक्तिस्ते प्रियाऽप्रिया वा प्रतिभातु, परमेतावदवश्यं कथयिष्यामि, यदिमा आर्या नितान्तं नित्रपा भवन्ति, अत आसां संगतिर्नोचिता। ईदृशामपवित्रस्त्रीणां तु गृहे प्रवेशोऽपि न देयो यत इमा बकभक्तवद् बहिस्तु निर्मितसाधुवेषा अप्यन्तःकुटिला भवन्ति । अस्मासु मायाऽऽनायं विस्तार्याऽस्मान् वञ्चयन्ति । अत्रत्यां वार्ता तत्र तत्रत्यामत्रोक्त्वा जनानां मिथो विरोधोत्पादनं तु तासां मुख्यं धर्मकार्य विद्यते । आस्माकीनेऽपि नगर आभिर्वञ्चिता अनेकनार्यः सन्ति, मिष्टवचनैरस्माकं वञ्चयन्तीनामासां यथार्थाऽवस्था तत्त्वतस्तस्या एव मार्जार्या इव जायते, यथा-भक्षिताऽनेकमूषिका मार्जारी वृद्धत्वे तपोमिषं विदधाति । गृहे यदाऽऽसां भोजनं न लभ्यते, तदैताः शिरो मुण्डयित्वा साध्व्यो भवन्ति, सद्भोजनायाऽस्मान्विविधां पट्टीमध्यापयन्ति । परमस्मादृशीनामाढ्यकुलभुवां बालिकानां त्वासां सङ्ग एव न कार्यः । यद्येतादृश्यो दश विंशतिर्वा साध्व्यः कुत्रचिदेकत्रिता भवेयुस्तदा कृत्स्नं नगरमुवासयेयुः । प्रतिगृहं झोलिकां गृहीत्वाऽटनं, भुक्त्वा पीत्वा चोदरे करस्फालनमेतदेव त्वासां नित्यनियमो वर्तते । ईदृशामार्याणां त्वमुपदेशं शृणोषि, तद्वरं नाऽऽचरसि, चेत्त्वमाभ्य एकदाहारं न देयास्तदेमाः परितस्ते निन्दां विदधाना न जाने कति निरवातितान्पूर्वजान्मृतकानुत्खनेयुः । अहं त्वेतदर्थममूषां छायापातमपि स्वस्मिन् वरं न मन्ये । अत्राऽप्यागता एता विलोक्य मेऽत्यशुभं लक्ष्यते । एता न कस्यचिद् भवन्ति, न कस्यचिदभूवन, न च भविष्यन्ति । अतो मादृशस्तत्तत्त्वज्ञः कोऽप्युत्तमजन एतासां संगति न करोति, अतोऽहं त्वामपि वारयामि, आभ्यस्तु सदा दूरावस्थानमेव
।। २७६ ।।