________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्रागभवोदन्तः
यतःसंगतिर्यादृशी तादृक्, ख्यातिमायाति वस्तुनः । रजनियोत्स्नया ज्योत्स्नी, तमसा च तमस्विनी ॥१०॥
__ अतो नवतत्त्वादिस्वरूपज्ञा सा जिनपूजादिश्रेयःकार्येषु लीनतयाऽवर्तत । साधुसाध्वीनामाहारदानानन्तरं भक्षणस्य तु तया संकल्प इव कृतो भवेत् । पूर्वमवसंयोगादेकदा नृपसचिवसुतयोर्मिलनमभवत्, तेन तयोस्तथा मिथः प्रेम प्रसृतम्, यथैकाऽन्यया मिलित्वाऽवर्ततेति कदाचिद् विश्लिष्टयोरुभयोः क्षणमपि युगवत प्रत्यैयतेव । एकदा द्वाभ्यां विचारितम्-आवयोः पूर्णेऽपि प्रेम्णि पुनर्यद्यावां भिन्नभर्तृके भवेव, तदाऽत्र सौहार्दै बाधा पतिष्यति, तत एकेनैव वरेणाऽऽवयोः परिणयो विधातव्यः एवं कृतेऽविच्छिन्ना प्रियता स्थास्यति । अनुकूलविचारविकसिताभ्यां ताभ्यामित्थमेव करणं स्थिरीकृतम् । परं यदैनयोः प्रेम प्रादुरभूत, तदा राजपुत्र्या मिथ्यात्वधर्मश्रद्धालुतां जैनधर्मद्वेषतां चाऽज्ञातवत्याः सचिवसुतायाः क्रमशो विदितायामपि तस्यां वार्तायां, सा चतुरस्वभावत्वात् पार्थिवपुत्रीं तद्विषये किञ्चिद्वक्तुमुचितं नाऽबोधि । पुनस्तया ध्यातम्यदीदृश्या ग.क्तयाऽऽवयोर्मिष्टप्रीतौ कटुताऽऽपतिष्यतीतीयं वार्ता रसनाग्रेऽपि नो कार्या | अमात्याऽत्मजासनीडे नित्यमाहारार्थमागतानां साध्वीनां भक्त्या वन्दनम्, प्रेम्णा तासां भिक्षादिदानम्, गमनसमये द्वारं यावदनुगमनमित्यादि कार्यमभव्यं मन्यमाना नृपात्मजा तदर्थमन्तरदन्दह्यत । एकदाऽमात्यात्मजां निजासन्नमुपवेश्य तत्पुरः साध्वीनां निन्दां कुर्वत्या तयोक्तम्-प्रियभगिनि!
|| २७८ ।।