________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवदन्तः
I
अस्य जम्बूद्वीपस्य भरतक्षेत्रे विदर्भाभिधो रमणीयतरो देशो वर्तते । तद्वर्तितिलकाख्यनगर्यामेकदा मदनभ्रमाऽऽह्नो राजा राज्यशासनमकरोत् । तस्य रूपगुणाढ्यायाः कमलमालाभिधानायाः पट्टराज्ञ्याः कुक्षिजा सौन्दर्येण कल्पद्रुममञ्जरीनिभा तिलकमञ्जरीनामन्येकाऽऽत्मजाऽऽसीत् । सा बाल्यादेव मिथ्यात्व - धर्मरता भक्ष्याऽभक्ष्यविवेकविहीना जैनधर्मद्वेषिणी चाऽऽसीत् । परं यथा चन्दनतरोर्मक्षिकावैमुख्येऽपि तन्मूल्यं न्यूनं न भवति, प्रत्युत तत्सौरभात्सैव वनीवच्यते, तथैव यदि बहुलकर्मा कश्चिज्जनो जैनधर्मं न श्रद्दधाति, तर्हि ततो जैनधर्मस्य हानिर्न भवति, किन्तु स स्वयमेवान्तरायकर्मयोगेन तल्लाभाद् वञ्चितो भवति, नूतनकर्माणि च बध्नाति ।
यतः
यद्देवैरपि दुर्लभं च घटते येनोच्चयः श्रेयसां, यन्मूलं जिनशासने सुकृतिनां यज्जीवितं शाश्वतम् । तत्सम्यक्त्वमवाप्य पूर्वपुरुषश्रीकामदेवादिवद्दीर्घायुः सुरमाननीयमहिमा श्राद्धो महर्द्धिर्भव
॥९॥
अतोऽखिलश्रेयोमूलं तदेवाङ्गीकरणीयम् । अस्तु । मद्यसिक्तविषवल्लीव शनैः शनैर्वर्धिताया अपि तस्या अन्तःकरणे लशुने कस्तूरीवासनेव जिनमतवासना किञ्चिदपि नोदपद्यत । अस्यैव राज्ञः सुबुद्धिनाम्नो धीसखस्य नाम्ना रूपवत्यात्मजया स्तन्यपानेन सहैव जिनमतपानं कृतमिति पीयूषप्रसिक्तकल्पलतेव क्रमशो वर्द्धिता सा साध्वीनां संगत्या सद्धर्मशास्त्रेषु स्तोकगतिका जाता ।
।। २७७ ।।