________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः भावात्सुकृतलेशोऽपि, नृणां सर्वार्थसिद्धिदः । भ्रष्टानां तु ततो नूनं, सर्वतो भ्रष्टता यतः
॥६॥ तदा चन्द्रेण भगवान पृष्टः- हे भगवन् ! केन कर्मणाऽहं विमात्रा चरणायुधीकृतः ?, केन कर्मणाऽहं नटैः सहाऽटितः, केन कर्मणा प्रेमलाकरे गतः ? केन सिद्धिगिरिसंयोगान्मे मनुष्यत्वलब्धिर्जाता? हिंसकमन्त्रिणा केन कर्मणा मकरध्वजेन समं कपटः कृतः ?, कनकध्वजः केन कर्मणा कुष्ठकवलितो जातः ? केन कर्मणा राझ्या गुणावल्या सह पुनर्मिलनमभूत् ?, आसां सर्ववार्तानां निदानाऽवगतेर्मे महत्यभिलाषा वर्तते । ऋते भानुतुल्यं भवन्तमेनामभिलाषां कः पूरयेत् ? | यतःअजयं लसत्पद्मिनीबून्दसहं, मधूनि प्रकामं पिबन्तं मिलिन्दम्। रविर्मोचयत्यजकारागृहेभ्यो, दयालुर्हि नो दुष्टयद्दोषदर्शी॥७॥
केवलज्ञानवतोऽतस्सदाखिलसुरासुरेन्द्रनरेन्द्रौघनमस्कृतचरणाजवतो भवतस्तु कौतस्त्याऽपि कापि वार्ता छन्ना नाऽस्ति, तस्माद् हे भवाब्धिपोतनिभ ! हे जगद्गुरो ! ममाखिलसन्देहनिवारणाय कृपा क्रियताम् । यतःगङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा । पापं तापं च दैन्यं च, हन्ति सन्तो महाशयाः ॥८॥
राज्ञश्चन्द्रस्य विनीतमिदं वचो निशम्य श्रीमुनिसुव्रतस्वामिना तत्पूर्वभववृत्तान्तं वक्तुमारेभे
|| २७६ ।।