________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः चेत्तत्त्वलयो लगति, तर्ह्यमृताऽनुष्ठानेनाऽन्ते जीवश्चिदानन्दस्वरूपं लब्ध्वा स्वालयमायाति, चिरादावृतं लोकालोकप्रकाशकं केवलज्ञानं चाऽऽविष्करोति । अवसानेऽलेशित्वमेत्य योगनिरोधेनैरण्डबीजादिवदितो विग्रहाद्विमुक्तः स पञ्चमीं गतिमाप्नोति, यत्र तस्य साद्यनन्तस्थितिर्भवति यतस्तस्य संसारे पुनरागमनं न जायते, संसारकारणभूतकर्मणां निःशेषविनाशत्वात् । अतोऽबाधाऽविनाशिसुखेप्सूनां प्राणिनामहिंसामूलस्य सद्धर्मस्याऽऽराधना कर्तव्या, यतो दयानिदानस्य सर्वज्ञकथितधर्मस्याऽऽराधनामन्तरेण प्राणिनः केनाऽपि प्रकारेण शिवसुखमाप्तुं नालं भवन्ति । अतो यस्याऽसुमतोऽस्याऽनुपमसुखस्येच्छा भवेत्तेन सम्यक् प्रकारेण तदाराधना कर्तव्यैव, तत्त्वदर्शिना भवितव्यम्, चाहर्निशं कर्मक्षयाय तत्परेण स्थेयम्, यतोऽन्ते तद्व्रतादिधर्मप्रभावेण मनोवाञ्छितं फलं लभ्येत । उक्तं च
|
अपवित्रः पवित्रः स्याद्दासो विधेशतां भजेत् । मूर्खो लभेत ज्ञानानि, मङ्क्षु दीक्षाप्रसादतः
॥५॥ यथा करकङ्कणाऽवलोकनायाऽऽदर्शाऽपेक्षा न जायते, तथैवाऽस्य धर्मविषयस्य कृतेऽन्यदृष्टान्ताऽऽवश्यकता न विद्यते, केवलं मदीयोक्त एव दृष्टान्तः पर्याप्तोऽस्ति । मया स्वयमनुभूतो भवन्तश्चाप्येनमनुभवितुमर्हन्ति इत्थं श्रीमुनिसुव्रतभगवतोऽमृतनिभमुपदेशं निशम्य ससभ्यो राजा चन्द्रो वैराग्यवासितस्वान्तेन सुभावेन प्रभोः पुरः समुत्थाय यथाशक्ति व्रतनियमादि जग्राह । उक्तं च
।। २७५ ।।