________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः श्रेयःकृत्यं तत्कराद् बहिर्निर्याति । तदानीं ममतारूपा रूपाजीवा तं वशीकृत्य बहुविधं नृत्यं नर्तयति । परवशः प्राणी तत्स्वरूपाऽनभिज्ञतया ममतैव मे सर्वविनाशिनी संसारभ्रमणकारिणी चेति नाभिजानाति । स निजस्वरूपविस्मरणात् परपरिणतिप्रवाहे प्रवहमाणः शुद्धदेवगुरुधर्मस्वरूपस्याऽज्ञत्वादेव कुदेवकुगुरुकुधर्मयोगेन तेष्वासक्तः संसाराब्धितरणतारणसत्तरिनिभान् सुदेवादीनुपेक्षते । अन्यच्चायं प्राणी तैजसकार्मणशरीरतर्यामारोहति तां तरिं रागद्वेषौ भवाब्धौ भ्रामयतः, अतः सा नौर्जगज्जलधेर्जिनमतरूपतटगा नो भवितुमर्हति । कदाचित् शुभोदये जाते तद्योगाज्जीवस्य संसाररत्नाकरे सर्वत्रानुपमलाभदातृसम्यक्त्वरत्नावाप्तिर्जायते ।
यतः
सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वमित्रान्न परं हि मित्रम् । सम्यक्त्वबन्धोर्न परो हि बन्धुः,
सम्यक्त्वलाभान्न परो हि लाभः
mn
ततो देशविरतित्वे प्राप्ते तस्य व्रतप्रत्याख्यानधर्मध्यानविधानेहोत्पद्यते, तस्मात्किञ्चित्कर्म दूरमयते । इत्थं श्राद्धीयद्वादशव्रतानां साधनायां चरीकृतायां कतीनामेव जीवानां सर्वविरतित्वमुदयते । अथ चारित्रं गृहीत्वाऽप्रमत्तभावेनातिचारादिदोषरहितं तत्पालनं चेक्रियमाणे प्राणादिपञ्चमरुतः संसाध्य रेचकपूरककुम्भकादीनामभ्यासं करोति । तारादृष्टित आरभ्य
।। २७४ ।।