________________
चन्द्रनृपस्य प्राग्भवोदन्तः
निजज्ञानादिगुणो मिथ्यात्वयोगेन संसारपरिभ्रमणहेतुप्रतिकूलप्रणालिकापतितः परकीयमपि वस्तु स्वकीयं मन्यमानो मोहासक्ततया संसारे परिभ्रमति ।
यथोक्तम्
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
—
यदत्र क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते यदुपात्तमन्यजन्मनि, शुभमशुभं या स्वकर्मपरिणत्या । तच्छक्यमन्यथा नैव, कर्तुं देवासुरैरपि वै
n
करिकुम्भात् स्रवितमदेऽत्यासक्तभ्रमरश्रेणीव स जीवः पौदगलिकपदार्थे प्रसक्तो जगति बम्भ्रम्यते । अस्य जीवस्य मूलायतनं सूक्ष्मनिगोदोऽस्ति, योऽव्यवहारराशिरिति धर्मशास्त्रे कथ्यते, तत्र केशाग्रमिताकाशेऽसङ्ख्यं गोलकमस्ति । प्रतिगोलकेऽमितनिगोदिजीवानां शरीराणि सन्ति, प्रतिकायमनन्तजीवनिकायोऽस्ति, अस्य निगोदस्याऽतिसौक्ष्म्यादतीन्द्रियत्वात्क्षीबामिथ्यामतोन्मत्ता अनार्हता बोद्धुं न पारयन्ति । अस्मिन् सूक्ष्मनिगोदेऽनादिकालतो वसन् श्रेय-उदयादेवाऽनुकूलभाग्ये कश्चित्कश्चिज्जीवो व्यवहारराशौ (बादरपृथिवीकायादौ) आयाति । ततो विकलेन्द्रिये, ततश्च तिर्यक्पञ्चेन्द्रियत्वमाप्नोति ततोऽनन्तपुण्यराशियोगेन क्रमशो मनुष्यत्वं लभते । लब्धेऽपि नरत्वेऽशुभसामग्रीसमागमाच्छुभसामृग्यभावाच्च स नरकादिदुर्गतिगतोऽनेकविधं दुःखं सहते । एतत्सर्वं विषयविकारवशात्कषायवशाच्चैव भवति । विषयकषायादुन्मत्ते जाते तस्य कृत्याकृत्यविवेको नाऽवशिष्यते, अतः सर्वमपि
|
।। २७३ ।।
/
un