________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्रागभवोदन्तः
चचाल ।
यतः
असर्वभावेन यदृच्छया या, परानुवृत्त्या भवतृष्णया या । ये त्वां नमस्यन्ति जिनेन्द्रचन्द्र!, तेऽप्यामरी संपदमाप्नुवन्ति ॥३००॥ अन्यच्चापिशाठ्येनापि नमस्कारं, यः करोति जिनेवरे । जन्मना यत्कृतं पापं, दहत्यग्निरिवेन्धनम्
॥१॥ किञ्चिदूरे गते दृष्टसमवसरणेन पुलकिताङ्गेन नृपेण तदानीमेव वाहनादुत्तीर्य पञ्चाभिगमं पालयता मोक्षमार्गनिःश्रेणिमिव समवसरणसोपानश्रेणीमतिक्रम्य परमात्मनो दर्शनं कृतम् । ततः सविधित्रिप्रदक्षिणं वन्दनं विधाय भगवतः संमुखमुपविश्य तन्मुखारविन्दविगलितपीयूषोपमां धर्मदेशनां शुश्राव ।
भगवतोक्तम्- भो भव्याः ! मिथ्यात्वाऽविरत्यादिसप्तपञ्चाशबन्धहेतुभिर्जीवः कर्माणि बध्नाति । तत्कर्मणां ज्ञानावरणीयाद्यष्टमूलप्रकृतयश्चोत्तरप्रकृतयोऽष्टपञ्चाशदधिकशतमिता वर्तन्ते। कर्माधीनतयाऽनादिकालतो विस्मृतनिजात्मगुणस्वभावो जीवो विद्यते, स च विशेषतो विभावाऽवस्थायां सदैव रमते, अतः कर्मराजप्रभावस्तस्मिन्नधिकाऽधिकं पतति । अस्य जीवस्य संख्यातिगाः प्रदेशाः सन्ति, येष्वष्टसु प्रदेशेषु कर्मभिरनावृतत्वात् कर्माणि नो लगन्ति, तस्मादेवाऽस्य जीवस्य जीवस्वरूपं निरन्तरं स्थिरं तिष्ठति । चेत्ते प्रदेशा अपि कर्मभिरावृता भवेयुस्तर्हि जीवोऽजीवत्वमाप्नुयात् । एभिर्दृढकर्मभिरावृतो जीवो विस्मृत
।। २७२ ।।