________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्रागभवोदन्तः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
सप्तविंशतितमपरिच्छेदे चन्द्रनृपस्य प्राग्भवोदन्तःअथ राजा चन्द्रः शिशुयुग्ममङ्के निधाय तबालक्रीडां वीक्ष्य प्रमुदितोऽभूत् । राजकुमारावपि मानससरोवरतटे हंसयुगलमिव तत्क्रोडे क्रीडन्तौ तच्छोमां वर्धयामासतुः । शनैश्शनैः प्रवर्धिष्णू तौ हस्त्यश्वारूढौ परितो बभ्रमतुः । जननाथेन चन्द्रेण तच्छिक्षार्थमपि तथा समुचितः प्रबन्धः कृतो, यथा तौ क्रीडाकूर्दनादिभिः सार्द्धमेव राजोचितविद्याकलादिषु पारदृश्वत्त्वमियाताम् | इतो भूजानेश्चन्द्रस्य राज्यं प्रयासं विनैव प्रतिदिनं प्रैधते स्म । भारतीयत्रिखण्डे तच्छासनं प्रववृते, तदैतादृशः कोऽपि क्षितीशो नाऽऽसीत्, यस्तदने शिरो न नामयेत् । तथानेके क्षितिपास्तु स्वयं तत्प्रभावप्रेरिता इव तत्पर्षदमेत्य सोपायनं तदधीनतामुररीचक्रुः, केऽपि तदादेशमुल्लययितुं साहसिका नो बभूवुः । विमलापुर्याः कीर्तिकीर्तनपरस्तदुपकारस्मारकः कृतज्ञशिरोमणिः सोऽचिरमेव स्वयशोराशिमिवोज्ज्वलं बहूनि जिनचैत्यानि निर्माप्य सुमुनिसमक्षे चाऽनेकनूतनजिनबिम्बानि विधाप्य तत्प्रतिष्ठामचीकरत् । पुनस्तदितराण्यपि तेनानेकश्रेयांसि कार्याणि कृतानि । अन्यदा तदीयकुसुमाकराऽभिधोद्याने श्रीमुनिसुव्रतस्वामिसमवसरणसमाचारसमर्पकायाऽऽरामिकाय पर्याप्तं पारितोषिक वितीर्य चतुरङ्गचमूचङ्गितः सपरिकरश्चन्द्रो महाडम्बरेण भगवन्तं वन्दितुं
|| २७१ ।।