________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा विहितः । तेन पृथ्वीशचन्द्रस्योज्ज्वलं यशः परितः प्रससार । गुणावलीप्रेमलयोर्दृढप्रेम तथा प्रवृद्धम, यथैकाऽन्यां विना रति नाऽऽप्तवत्यासीत्, अतस्ते द्वे अपि सहैवोपवेशनाशनादौ निरते प्रास्ताम् । राजा चन्द्रोऽप्युभयोः समभावेन प्रवर्तते स्म । अथ दिवच्युतः कश्चिद्देवो गुणावलीकुक्षौ गर्भरूपेणोत्पेदे | तदानीं तया शुभस्वप्नो दृष्टः पूर्णे च गर्भकाले तया सुन्दरं सुतरत्नं प्रसूतम्। दास्या विदितवृत्तेन चन्द्रेणाऽर्थिभ्यो बहुविधं दानं दत्तम्, महाडम्बरेण चाऽऽत्मजजन्ममहः कारितः पुत्रसत्स्वरूपावलोकनेन राजा चन्द्रः प्रमुदितो बभूव । द्वादशे घने बालस्य जन्माऽनुसारेण गुणशेखर इति नाम स्थापितम् । गतेषु कतिषु वासरेषु प्रेमलयाऽप्येकश्चारुपुत्रोऽसावि, पित्रा मणिशेखर इति तन्नाम कृतम् । अथो प्रेमप्रयत्नैः पाल्यमानौ तौ पृथुको पितरौ प्रमोदयन्तौ शुक्लपक्षग्लौवदुत्तरोत्तरं प्रेधमानावास्ताम् ।
|| २७० ।।