________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा वार्ताः प्रावर्तन्त, तदैकोऽन्यस्य समक्षे निजचित्तमुद्घाट्योद्घाट्य सत्स्नेहं दर्शयामास । तेन तयोर्हार्दमुत्तरोत्तरं वर्धिष्ण्वेवासीत्, तौ च दम्पत्यादर्शाविव निजकालं गमयाचक्रतुः।
अथैकदा राज्ञा चन्द्रेण राजपरिषदो विशेषाधिवेशनं कृत्वा विपश्चितो ग्राम्यमान्यसज्जनांश्च निमन्त्र्य सर्वसमक्षे निजकुक्कुटभवनमारभ्याऽऽभापुरीपरावर्तनं यावत्सर्वोदन्तः श्रावितः । तच्छृत्वा साश्चर्याः सर्वे तज्जयारावं घोषं घोषं तन्मङ्गलमचीकमन्त। अन्तःपुरेऽपि स्वर्गोपमं सुखमनुभवन् यावत्स तत्राऽस्थात्, तावत्तद्देव्यो नानाविधं तन्मनोरञ्जनं कृतवत्यः कदाचित्तं हावभावादिकं दर्शितवत्यः, कदाचिद् गीतप्रहेलिकादिरचनां कृत्वा तोषितवत्यः, कदाचित्तु नवनवानां क्रीडनकानामायोजनां कृतवत्य आसन् । भोगावलिकर्मोदयाद् नृपश्चन्द्र एतादृशान्विविधभोगान्मुआनो विपुलसाम्राज्यं शासितुमुपचक्रमे । परमेतस्यां सुखसमृद्ध्यवस्थायामपि राजा चन्द्रो नटोपकृतिं कथमपि विस्मर्तुं न शशाक | यतःब्रह्मने च सुरापे च, चौरे भग्नवते तथा । निष्कृतिविहिता लोके, कृतघ्ने नास्ति निष्कृतिः ॥९९॥
यत उत्तमाः सम्पद्यपि कृतज्ञतां नोज्झन्ति, पामरा एवाऽकृतज्ञा भवन्तीति धराधिपतिना चन्द्रेण शिवकुमाराय पूर्वमपि प्रचुरं द्रव्यं दत्त्वा स लघुराजवत्कृतः, परमेतावतैवाऽसन्तुष्टेन तेनाऽन्यामपि ग्रामनगरादिकाऽऽजीविकां दत्त्वा स चिरन्तनसुखी
|| २६६ ॥