________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
प्रिय ! अनाप्तकुक्कुटत्वे सति भवतः सिद्धाचलतीर्थयात्रालब्धिर्भवाऽब्धिनिस्तारश्च कथं भवेत् ? अतो ममाऽपकारोऽप्युपकारतयैव बोद्धव्यः । यतः सज्जनाः सदेत्थमेव विदधति, ते परकीयदोषाननादाय तदीयगुणानेवाऽऽददते । अहं निजजाड्यात् वश्रूवचःस्वागता ततो मे तत्फलं भोक्तव्यमेवाऽभूत् । प्राणनाथ ! भवदनुपस्थितावेकस्मिन्नपि वासरे ममाऽक्ष्णोरश्रु न शुष्कम् । अहं तु दैवमेतदेव प्रार्थयामि, यन्मे कस्मिंश्चिदपि भवे भवद्विमातृसदृशीं वश्रूं न देयात् । तया मे यो दण्डो दत्तस्तमहं यावज्जीवं विस्मर्तुं न शक्नोमि । यावद् भवान् कुक्कुटरूपेणाऽपि मम समक्षेऽस्थात्, तावन्मे कथञ्चित्संतुष्टिरतिष्ठत् परं यदा शिवमालया नट्या समं भवान् ययिवान्, ततःप्रभृति मदीयवासराणि यथा व्यतीयुः, तत्केवलं परमात्मैव वेद । मम जीवनं पशुपक्षिभ्योऽप्यतिदुःखमयं जातम्, पुनर्यद्दिनादारभ्य भवतो मनुष्यत्वप्राप्तिर्जाता तदारभ्याऽहमपि मनुष्य इवाऽभूवम् । एतत्सर्वं निश्छद्द्महृदयेन कथयामि, एतन्नावगन्तव्यं, यदियं मदग्रे निजमहत्त्वमुच्चैः कर्तुमेवं ब्रूते । तदुक्ति निशम्य तां हृदयेनाऽऽश्लिष्योर्वीपेण चन्द्रेणोक्तम्- प्रिये ! त्वयैतद्वक्तुं न युज्यते, यतस्त्वां सत्यस्नेहवतीं प्राणेश्वरीं वेद्मि । अतस्तव सतीत्वादेव त्वरितं विमलापुरीतोऽत्राहमागतोऽस्मि, अन्यथा मदागमनमप्यसंभवमासीत् । अथ त्वं मे साम्राज्यराज्ञ्यसि त्वं यथारुचि गृहकार्यभारसारप्रबन्धं कुरु, सस्नेहेन निजसपत्नीभ्यः कार्यं लाहि । अहं त्वेतत्सर्वं त्वयि न्यस्य स्वस्थंमन्यो जातोऽस्मि । मम त्वधुनाऽदनपानयो राज्यकर्मदर्शनमात्रस्य चैवातीव चिन्ता वर्तते, भर्तुर्महत्त्वप्रदमदो वचो निशम्य गुणावली भृशं जहर्ष । तयोर्यदैतादृश्यो
|| २६८ ।।
1
चन्द्रशीलपरीक्षा